2023-07-25 10:19:34 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  द्वितीयाश्वासः
  
  
  
   
  
  
  
  तामन्नहरोऽस्मि देवानामित्यभिमन्यते कृतकृत्यमात्मानम् ।
  
  
  
   हन्त चिरादिमान् देवपशूनद्राक्ष्म ।
  
  
  
   
  
  
  
  ११३
  
  
  
   
  
  
  
  हन्त
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  किन्न निगृह्णन्ति मनः किन्न भजन्ते जनाशिवं शरणम् ।
  
  
  
  
  
  
  
  अभिसन्धिभेदमात्रान्मोक्षो (क्षा) aपायेन बध्यते ॥ ४–५ ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  इत्यादीनि परिहासवचांसि पश्यन्तस्तरतमभाव मैश्वर्येषु, परित्यजन्तः
  
  
  
   स्वर्गाधिराज्यदुर्मदम्, अपत्रपानष्टदृष्टयस्स्वयमाधिपत्यादस्मदीयादत्र
  
  
  
   भिक्षाटनं ज्याय इति मेनिरे ।
  
  
  
   
  
  
  
  19
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  इत्यमरः । चिरात् बहुकालात्, इमान् देवा एव पशव:वः, देवाः पशव इव वा,
  
  
  
   एतान् अद्राक्ष्म दृष्टवन्तः ॥ किमिति ॥ जनाः, मनः चित्तं कर्म, न निगृह्णन्ति
  
  
  
   किं, न निरुन्धन्ति किं, रुन्धन्त्येवेत्यर्थः । तथा शिवं, शरणं रक्षकं सन्तं, न
  
  
  
   भजन्ते किं, सेवन्त एवेत्यर्थः । तथापीति शेषः । अभिसन्धेः फलाकाङ्क्षायाः,
  
  
  
  
  
  
  
  फललिप्साया इति यावत् । भेदमालात्राद्भेदादेव, कामवशादेवेति यावत् । मोक्षस्य
  
  
  
   अपाय:यः व्यतिरेकः राहित्यमिति यावत् । तेन बध्यन्ते निबध्यन्ते । तेषां कामिनामेवं
  
  
  
   दुरवस्थेति भावः । इत्यादीनि एवमादीनि, परिहाससहितानि वचांसि, सोपाल-
  
  
  
  म्भवचनानीति भावः । शृण्वन्तस्सन्तः ऐश्वर्ये, तरतमभावं तारतम्यं पश्यन्तः ।
  
  
  
   स्वर्गस्य, आधिराज्येन आधिपत्येन यो मदः तं परित्यजन्तः, अपत्रपया लज्जया,
  
  
  
   नष्टाः दृष्टयः येषां ते तथाभूतास्सन्तः, अस्मदीयात् '[^१]स्वर्गाधिपत्यात् स्वस्व र्गसाम्राज्यात् ।
  
  
  
  2 स् [^२]ल्यब्लोपे पञ्चमी । अत्र सत्यलोके भिक्षार्थं अटनं सञ्चाररः, ज्यायः श्रेय इति
  
  
  
  
  
  
  
  मेनिरे बुबुधिरे । उत्तरोत्तरं श्रेयः के वा नाकाक्षन्त इति भावः । इदानीं ब्रह्म-
  
  
  
  लोकवासिनां गुरुं प्रति अभिमुखागमनसनत्कुमारसमीपप्रापणे वर्णयितुमारभते
  
  
  
   
  
  
  
  9
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  a
  
  
  
   
  
  
  
  . ' अपायेन ' इति व्याख्यापाठः ।
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] 'स्वयमाधिपत्यात्' -- इति मूलपाठः, 'स्वर्गाधिपत्यात्' इति व्याख्यापाठः ।
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] स्वर्गसाम्राज्यं परित्यज्य सत्यलोके भिक्षाटनं ज्यायः इति ल्यब्लोपे पञ्चम्या
  
  
  
   भिक्षाटनेऽन्वयः ॥ अथवा ज्यायः इति ईयसुन्नन्तानुरोधेन अवधिपञ्चमीत्यपि साधु ॥
  
  
  
   स्वर्गसाम्राज्यं प्रशस्तम् - तस्मादपि सत्यलोके भिक्षाटनं प्रशस्ततरम् इति ॥ 'प्रशस्यस्य श्र: रः'
  
  
  
   'ज्य च' 'ज्यादादीयसः' (पा.सू. 5-3-60, 5-3-61, 6-4-160५.३.६०, ५.३.६१, ६.४.१६०) इति सूत्रैः ज्यायश्शब्द-
  
  
  
  निष्पत्तिः ॥
  
  
  
   
  
  
  
  N - 16