This page has been fully proofread twice.

धैरपि भगवन्तमिन्दुशेखरं प्रार्थयामास दानवामिषं स्वाराज्यम् । पश्यत पश्यत कुबेरमिमं पशुपाशविमोचिना पाशुपतव्रतेन समाराध्य परमात्मानं सखाऽसि ममेत्यनुगृहीतोऽपि यः [^१]पिशाच इव धनपालतां वव्रे । किं बहुना । आत्मभूतोऽप्ययमष्टमूर्तेर्भगवतो वैश्वानरः विफलीकृत्य विवेकम्, उपास्य चिरतरं कालमुमारमणमपि आसाद्य हव्यवाह-
 
[commentary]
 
ज्ञयाऽवहेळनेन, मुकुळितां विकासरहिताम् । 'अवज्ञाऽवहेलनमसूर्क्षणम्' इत्यमरः । दृशं दृष्टिं अवलोकयन्तस्सन्तः शृण्वन्तश्च तेषामित्यस्य 'किं न निगृह्णन्ती'ति पद्योत्तरगद्यस्थेन 'इत्यादिपरिहासवचांसि' इत्यनेनान्वयः । य इन्द्रः, शतेनाश्वमेधैः क्रतुभिरपि, भगवन्तमिन्दुशेखरं शिवं, परितोष्य तोषयित्वा, दानवानाम् असुराणां आमिषं भोग्यम् । 'आमिषं त्वस्त्रियां मांस उत्कोचे भोग्यवस्तुनि' इति रत्नमाला । स्वाराज्यं स्वर्गसाम्राज्यं, प्रार्थयामास वव्रे । अयमेव वराकः तुच्छः, शतमन्युरिति प्रसिद्धः । पश्यन्तीति पशवः प्राणिनः तेषां यस्संसारलक्षणः पाशः तस्य मोचिना मोचकेन, पशुपतेरिदं पाशुपतं तेनैव व्रतेन । 'लिङ्गे प्राणं समाधाय प्राणे लिङ्गं तु शाम्भवम् । स शरीरे मनः कृत्वा न किञ्चिच्चिन्तयेद्धृदि ॥ सदाचारश्शिवे भक्तिर्लिङ्गे जङ्गम एकधीः । लाञ्छने शरणं भक्तिर्भक्तस्थलमिति स्मृतम् ॥' भक्तस्थलादिषट्स्थलाभ्यासलक्षणनियमेनेत्यर्थः । परमात्मानं परमशिवं समाराध्य पूजयित्वा मम महेश्वरस्य सखा मित्रं असीति अनुगृहीतोऽपि अनुकम्पितोऽपि,
यः कुबेरः, पिशाच इव धनपालतां धनसंरक्षकत्वं, वव्रे वृतवान् । तमिमं कुबेरं पश्यत । किं बहुना, वैश्वानरः अग्निः, भगवतः [^२]अष्टमूर्तेः परमेश्वरस्य, आत्मभूतोऽपि शरीरभूतोऽपि । 'आत्मा यत्नो धृतिर्बुद्धिस्स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । उमारमणं पार्वतीपतिं, चिरतरं बहुकालं, उपास्य ध्यात्वापि, विवेकं सारासाराकलनम्, अपास्य विफलीकृत्य, हव्यवाहतां हुतवहत्वम्, आसाद्य, देवानां
अन्नहरः अन्नहर्ता अस्मीति, आत्मानं कृतकृत्यं निर्वर्तितसकलकार्यम्, अभिमन्यते अभिजानाति । हन्तेत्याश्चर्यवेखेदयोः । 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः'
 
[^१] भोगं दानं च विना धनरक्षकः पिशाचतुल्य एवेति तात्पर्यम् ॥
 
[^२] पृथिव्यप्तेजोवाय्वाकाशात्मकं भूतपञ्चकं जडम्, सूर्याचन्द्रमसौ प्रकाशरूपौ, यज्वानः जीवाश्चेति मूर्तयः अष्ट परमेश्वरस्य । एतच्च "या सृष्टिः स्रष्टुराद्या, वहति विधिहुतं या हविः...प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु नस्ताभिरष्टाभिरीशः" ॥ इति शाकुन्तलनाटकीयेन कालिदासीयेनादिमेन पद्येन विवृतम् ॥