2023-07-25 10:05:18 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  ११२
  
  
  
   
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  धैरपि भगवन्तमिन्दुशेखरं प्रार्थयामास दानवामिषं स्वाराज्यम् । पश्यत
  
  
  
   पश्यत कुबेरमिमं पशुपाशविमोचिना पाशुपतव्रतेन समाराध्य परमात्मानं
  
  
  
   सखाऽसि ममेत्यनुगृहीतोऽपि यः [^१]पिशाच इव धनपालतां वव्रे । किं
  
  
  
   बहुना । आत्मभूतोऽप्ययमष्टमूर्तेर्भगवतो वैश्वानरः विफलीकृत्य
  
  
  
   विवेकम्, उपास्य चिरतरं कालमुमारमणमपि आसाद्य हव्यवाह-
  
  
  
  19
  
  
  
   
  
  
  
  ,
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  ज्ञयाsऽवहेळनेन, मुकुळितां विकासर हिताम् । 'अवज्ञ ञाऽवहेलनमसूर्क्षणम्' इत्यमरः ।
  
  
  
   
  
  
  
  ,
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
   दृशं दृष्टिटिं अवलोकयन्तस्सन्तः शृण्वन्तश्च तेषामित्यस्य 'किं न निगृह्णन्ती' ति
  
  
  
  ति पद्योत्तरगद्यस्थेन 'इत्यादिपरिहासवचांसि' इत्यनेनान्वयः । य इन्द्रः, शतेनाश्वमेघैः
  
  
  
  धैः क्रतुभिरपि, भगवन्तमिन्दुशेखरं शिंवशिवं, परितोष्य तोषयित्वा, दानवानाम् असुराणां
  
  
  
   आमिषषं भोग्यम् । 'आमिषं त्वस्त्रियां मांस उत्कोचे भोग्यवस्तुनि' इति रत्नमाला ।
  
  
  
   स्वाराज्यं स्वर्गसाम्राज्यं, प्रार्थयामास वत्व्रे । अयमेव वराक:कः तुच्छछः, शतमन्युरिति
  
  
  
   प्रसिद्धः । पश्यन्तीति पशव:वः प्राणिनः तेषां यस्संसारलक्षण:णः पाशः तस्य
  
  
  
   मोचिना मोचकेन, पशुपतेरिदं पाशुपतं तेनैव व्रतेन । 'लिङ्गे प्राणं समाधाय प्राणे
  
  
  
   लिङ्गं तु शाम्भवम् । स शरीरे मनः कृत्वा न किञ्चिच्चिन्तयेद्धृदि ॥ सदाचार-
  
  
  
  श्शिवे भक्तिर्लिङ्गे जङ्गम एकधी:धीः । लाञ्छने शरणं भक्तिर्भक्तस्थलमिति स्मृतम् ॥१
  
  
  
  ’ भक्तस्थलादिषट्स्थलाभ्यासलक्षणनियमेनेत्यर्थः । परमात्मानं परमशिवं समाराध्य
  
  
  
   पूजयित्वा मम महेश्वरस्य सखा मित्रं असीति अनुगृहीतोऽपि अनुकम्पितोऽपि,
  
  
  
  य:
  
  
  
  यः कुबेर:रः, पिशाच इव धनपालतां धनसंरक्षकत्वं, वव्रे वृतवान् । तमिमं कुबेरं
  
  
  
   पश्यत । किं बहुना, वैश्वानरः अग्भिःनिः, भगवतः [^२]अष्टमूर्ते:तेः परमेश्वरस्य, आत्म-
  
  
  
  भूतोऽपि शरीरभूतोऽपि । 'आत्मा यत्नो धृतिर्बुद्धिस्स्वभावो ब्रह्म वर्ष्म च
  
  
  
   इत्यमरः । उमारमणं पार्वतीपतिं, चिरतरं बहुकालं, उपास्य ध्यात्वापि, विवेकं
  
  
  
   सारासाराकलनम्, अपास्य विफलीकृत्य, हव्यवाहतां हुतवहत्वम्, आसाद्य, देवानां
  
  
  
  
  
  
  
  अन्नहरः अन्नहर्ता अस्मीति, आत्मानं कृतकृत्यं निर्वर्तितसकलकार्यम्, अभिमन्यते
  
  
  
   अभिजानाति । हन्तेत्याश्चर्यवेदयोः । 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भ विषादयोः '
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  ु
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] भोगं दानं च विना धनरक्षक:कः पिशाचतुल्य एवेति तात्पर्यम् ॥
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] पृथिव्यप्तेजोवाय्वाकाशात्मकं भूतपञ्चकं जडम्, सूर्याचन्द्रमसौ प्रकाशरूपौ,
  
  
  
   यज्वान:नः जीवाश्चेति मूर्तयः अष्ट परमेश्वरस्य । एतञ्च्च " या सृष्टि:टिः स्रष्टुराद्या, वहति विधि-
  
  
  
  हुतं या हविः...प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु नस्ताभिरष्टाभिरीश: शः" ॥ इति शाकुन्तल
  
  
  
  नाटकीयेन कालिदासीयेनादिमेन पद्येन विवृतम् ॥