2023-06-05 16:39:57 by ambuda-bot
This page has not been fully proofread.
११२
नीलकण्ठविजये सव्याख्याने
धैरपि भगवन्तमिन्दुशेखरं प्रार्थयामास दानवामिषं स्वाराज्यम् । पश्यत
पश्यत कुबेरमिमं पशुपाशविमोचिना पाशुपतव्रतेन समाराध्य परमात्मानं
सखाऽसि ममेत्यनुगृहीतोऽपि यः पिशाच इव धनपालतां वव्रे । किं
बहुना । आत्मभूतोऽप्ययमष्टमूर्तेर्भगवतो वैश्वानरः विफलीकृत्य
विवेकम्, उपास्य चिरतरं कालमुमारमणमपि आसाद्य हव्यवाह-
19
,
ज्ञयाsवहेळनेन, मुकुळितां विकासर हिताम् । 'अवज्ञ ऽवहेलनमसूक्षणम्' इत्यमरः ।
,
"
दृशं दृष्टि अवलोकयन्तस्सन्तः शृण्वन्तश्च तेषामित्यस्य 'किं न निगृह्णन्ती' ति
पद्योत्तरगद्यस्थेन 'इत्यादिपरिहासवचांसि' इत्यनेनान्वयः । य इन्द्रः, शतेनाश्वमेघैः
क्रतुभिरपि, भगवन्तमिन्दुशेखरं शिंव, परितोष्य तोषयित्वा, दानवानाम् असुराणां
आमिष भोग्यम् । 'आमिषं त्वस्त्रियां मांस उत्कोचे भोग्यवस्तुनि' इति रत्नमाला ।
स्वाराज्यं स्वर्गसाम्राज्यं, प्रार्थयामास वत्रे । अयमेव वराक: तुच्छ, शतमन्युरिति
प्रसिद्धः । पश्यन्तीति पशव: प्राणिनः तेषां यस्संसारलक्षण: पाशः तस्य
मोचिना मोचकेन, पशुपतेरिदं पाशुपतं तेनैव व्रतेन । 'लिङ्गे प्राणं समाधाय प्राणे
लिङ्गं तु शाम्भवम् । स शरीरे मनः कृत्वा न किञ्चिचिन्तयेद्धृदि ॥ सदाचार-
श्शिवे भक्तिर्लिङ्गे जङ्गम एकधी: । लाञ्छने शरणं भक्तिभक्तस्थलमिति स्मृतम् ॥१
भक्तस्थलादिषट्स्थलाभ्यासलक्षणनियमेनेत्यर्थः । परमात्मानं परमशिवं समाराध्य
पूजयित्वा मम महेश्वरस्य सखा मित्रं असीति अनुगृहीतोऽपि अनुकम्पितोऽपि,
य: कुबेर:, पिशाच इव धनपालतां धनसंरक्षकत्वं, वव्रे वृतवान् । तमिमं कुबेरं
पश्यत । किंबहुना, वैश्वानरः अग्भिः, भगवतः अष्टमूर्ते: परमेश्वरस्य, आत्म-
भूतोऽपि शरीरभूतोऽपि । 'आत्मा यत्नो धृतिर्बुद्धिस्स्वभावो ब्रह्म वर्ष्म च
इत्यमरः । उमारमणं पार्वतीपतिं, चिरतरं बहुकालं, उपास्य ध्यात्वापि, विवेकं
सारासाराकलनम्, अपास्य विफलीकृत्य, हव्यवाहतां हुतवहत्वम्, आसाद्य, देवानां
अन्नहरः अन्नहर्ता अस्मीति, आत्मानं कृतकृत्यं निर्वर्तितसकलकार्यम्, अभिमन्यते
अभिजानाति । हन्तेत्याश्चर्यवेदयोः । 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भ विषादयोः '
"
ु
1. भोगं दानं च विना धनरक्षक: पिशाचतुल्य एवेति तात्पर्यम् ॥
2. पृथिव्यप्तेजोवाय्वाकाशात्मकं भूतपञ्चकं जडम्, सूर्याचन्द्रमसौ प्रकाशरूपौ,
यज्वान: जीवाश्चेति मूर्तयः अष्ट परमेश्वरस्य । एतञ्च " या सृष्टि: स्रष्टुराद्या, वहति विधि-
हुतं या हविः...प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु नस्ताभिरष्टाभिरीश: " ॥ इति शाकुन्तल
नाटकीयेन कालिदासीयेनादिमेन पद्येन विवृतम् ॥