2023-07-25 09:47:20 by Bharadwajraki
This page has been fully proofread once and needs a second look.
भवताम्, अत्रभवतां सनकसनन्दनसनत्कुमारादिमहायोगिनां, मूकेष्विव वाग्ग्मिनां, मूर्खेष्विव बुद्धिमताम्, अन्धेष्विव चक्षुष्मताम्, अधनेष्विव महेश्वराणां, कीटेष्विव सरीसृपाणां, सरीसृपेष्विव चतुष्पदां, चतुष्पात्स्विव मानवानां, मानवेष्विव महीभृतां, महीभृत्स्विव मरुतां, मरुत्स्विव मरुत्वतो, मरुत्वत्यपि पतन्तीमवज्ञामुकुळितां दृशमवलोकयन्तः शृण्वन्तश्च तेषामेव 'हन्त वराकश्शतमन्युर्नामायमेव परितोष्य यश्शतेनाश्वमे-
[commentary]
पर्यन्तं त्वयात्रैव वर्तितव्यमितीश्वरनियोगः । 'प्रक्रिया त्वधिकारस्स्यात्' इत्यमरः । स एव मलं पापम् । 'मलोऽस्त्री पापविट्किट्टानि' इत्यमरः । तस्य, क्षपणाय केवलं पापनाशायैव, क्षाळनायेति यावत् । अनुत्तरं स्वापेक्षया तृष्णान्तररहितं, श्रेष्ठमिति यावत् । 'श्रेष्ठेऽनुदीच्यां प्रतिवाग्धाने च त्रिष्वनुत्तरम्' इति रत्नमाला । योगैः यमाद्यष्टाङ्गयोगैः, ऐश्वर्यम् अणिमादिलक्षणम्, अनुभवतां भजताम्, अत्रभवतां पूज्यानामित्यर्थः । सनकसनन्दनसनत्कुमारा एवादयो येषां, तथाविधा योगिनो ध्यानिनः । 'योगस्सन्नहनोपायध्यानसङ्गतियुक्तिषु' इत्यमरः । तेषां सम्बन्धिनीः, वाच [^१]एषां सन्तीत्यर्थे 'वाचो ग्मिनिः' (५.२.१२४) इति ग्मिन्प्रत्यये वाग्ग्मिन इति रूपम् । तेषामतिवक्तॄणां । 'वाचोयुक्तिपटुर्वाग्म्मी' इत्यमरः । मूकेषु वाग्व्यापाररहितेषु यथेत्यर्थः । 'अवाचि मूकोऽथ मनः' इत्यमरः । बुद्धिमतां
विवेकिनाम् । प्रशंसायां मतुप् । मुग्धेष्विव मूढेषु यथेत्यर्थः । 'मुग्धस्सुन्दरमूढयोः' इत्यमरः । चक्षुष्मतां विपुलचक्षुष्काणाम्, अन्धेष्विव दृग्रहितेषु यथेत्यर्थः । 'किलासी सिध्मलोऽन्धोऽदृक्' इत्यमरः । महेश्वराणां महैश्वर्यशालिनाम्, अधनेष्विव दरिद्रेषु यथेत्यर्थः । सरीसृपाणां सर्पाणाम् । 'चक्री व्याळस्सरीसृपः' इत्यमरः । कीटेष्विव क्रिमिविशेषेषु यथेत्यर्थः । चतुष्पदां गोव्याघ्रादीनां, सरीसृपेष्विव सर्पेषु यथेत्यर्थः । मानवानां, चतुष्पात्स्विव पशुषु यथेत्यर्थः । महीभृतां राज्ञां, मानवेष्विव
नरेषु यथेत्यर्थः । मरुतां देवानाम् । 'हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ' इत्यमरः । महीभृत्स्विव राजसु यथेत्यर्थः । मरुत्वतः इन्द्रस्य । 'इन्द्रो मरुत्वान्' मघवा इत्यमरः । मरुत्स्विव देवेषु यथेत्यर्थः । मरुत्वति इन्द्रेऽपि, [^२]तथा पतन्तीं, अव-
[^१] "आलजाटचौ बहुभाषिणि" (पा.सू. ५.२.१२५) 'कुत्सित इति वक्तव्यम्' -- कुत्सितं बहु भाषते -- वाचालः, वाचाटः, यस्तु सम्यक् बहु भाषते स वाग्ग्मीत्येव -- इत्यनुशासनम् ॥
[^२] "तथा पतन्तीम्" -- व्याख्यापाठः, "पतन्तीम्'' मूलपाठः ॥