2023-07-25 09:46:13 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  द्वितीयाश्वासः
  
  
  
   
  
  
  
  भवताम्, अत्रभवतां
  
  
  
   
  
  
  
   सनकसनन्दनसनत्कुमारादिमहायोगिनां, मूकेष्विव
  
  
  
   वाग्ग्मिनां, मूर्खेष्विव बुद्धिमताम्, अन्धेष्विव चक्षुष्मताम्, अधनेष्विव
  
  
  
   महेश्वराणां, कीटेष्विव सरीसृपाणां, सरीसृपेष्विव चतुष्पदां, चतुष्पा-
  
  
  
  त्स्विव मानवानां, मानवेष्विव महीभृतां, महीभृत्स्विव मरुतां, मरुत्स्विव
  
  
  
   मरुत्वतो, मरुत्वत्यपि पतन्तीमवज्ञामुकुळितां दृशमवलोकयन्तः शृण्व-
  
  
  
  न्तश्च तेषामेव 'हन्त वराकश्शतमन्युर्नामायमेव परितोष्य यश्शतेनाश्वमे-
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  पर्यन्तं त्वयात्रैव वर्तितव्यमितीश्वरनियोगः । 'प्रक्रिया त्वधिकारस्स्यात्'
  
  
  
   इत्यमरः । स एव मलं पापम् । 'मलोऽस्त्री पापविट्किट्टानि' इत्यमरः । तस्य,
  
  
  
   क्षपणाय केवलं पापनाशायैव, क्षाळनायेति यावत् । अनुत्तरं स्वापेक्षया तृष्णान्तर-
  
  
  
  रहितं, श्रेष्ठमिति यावत् । 'श्रेष्ठेऽनुदीच्यां प्रतिवाग्धाने च वित्रिष्वनुत्तरम्' इति रत्न-
  
  
  
  माला । योगै:गैः यमाद्यष्टाङ्गयोगःगैः, ऐश्वर्यम् अणिमादिलक्षणम्, अनुभवतां भजताम्,
  
  
  
   अत्रभवतां पूज्यानामित्यर्थः । सनकसनन्दनसनत्कुमारा एवादयो येषां, तथाविधा
  
  
  
   योगिनो ध्यानिनः । 'योगस्सन्नहनोपायध्यानसङ्गतियुक्तिषु' इत्यमरः । तेषां
  
  
  
   सम्बन्धिनी:नीः, वाच [^१]एषां सन्तीत्यर्थे 'वाचो ग्मिनिः' (5-2-124५.२.१२४) इति म्ग्मिन्प्रत्यये
  
  
  
   वाग्ग्मिन इति रूपम् । तेषामतिवक्तृतॄणां । 'वाचोयुक्तिपटुर्वाग्म्मी' इत्यमरः । मूकेषु
  
  
  
   वाग्व्यापाररहितेषु यथेत्यर्थः । 'अवाचि मूकोऽथ मनः' इत्यमरः । बुद्धिमतां
  
  
  
  
  
  
  
  विवेकिनाम् । प्रशंसायां मतुप् । मुग्धेष्विव मूढेषु यथेत्यर्थ:थः । 'मुग्धस्सुन्दरमूढयो: '
  
  
  
  योः' इत्यमरः । चक्षुष्मतां विपुलचक्षुष्काणाम्, अन्धेष्विव हदृग्रहितेषु यथेत्यर्थः ।
  
  
  
   'किलासी सिध्मलोऽन्धोऽदृक्' इत्यमरः । महेश्वराणां महैश्वर्यशालिनाम्, अघधनेष्विव
  
  
  
   दरिद्रेषु यथेर्थ:त्यर्थः । सरीसृपाणां सर्पाणाम् । 'चक्री व्याळस्सरीसृपः' इत्यमरः ।
  
  
  
   कीटेष्विव क्रिमिविशेषेषु यथेत्यर्थः । चतुष्पदां गोव्याघ्रादीनां, सरीसृपेष्विव सपेंर्पेषु
  
  
  
   यथेत्यर्थः । मानवानां, चतुष्पात्स्विव पशुषु यथेत्यर्थः । महीभृतां राज्ञां, मानवेष्विव
  
  
  
  
  
  
  
  नरेषु यथेत्यर्थः । मरुतां देवानाम् । 'हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ'
  
  
  
   इत्यमरः । महीभृत्स्विव राजसु यथेत्यर्थः । मरुत्वतः इन्द्रस्य । 'इन्द्रो मरुत्वान्' मघवा
  
  
  
   इत्यमरः । मरुत्स्विव देवेषु यथेत्यर्थः । मरुत्वति इन्द्रेऽपि, [^२]तथा पतन्तीं, अव
  
  
  
   
  
  
  
  1.-
  
  
  
   
  
  
  
  [^१] "आलजाटचौ बहुभाषिणि" (पा.सू. 5५.२.१२५) 'कुत्सित इति वक्तव्यम्' -2-125) 'कुत्सित इति वक्तव्यम्'-
  
  
  
   कुत्सितं बहु भाषते –-- वाचालः, वाचाटः, यस्तु सम्यक् बहु भाषते स वाग्ग्मीत्येव– -- इत्यनुशासनम् ॥
  
  
  
   
  
  
  
  [^२] "तथा पतन्तीम्" -
  
  
  
  शासनम् ॥
  
  
  
   
  
  
  
  2, " तथा पतन्तीम्" –- व्याख्यापाठः, "पतन्तीम्'' मूलपाठः ॥