This page has not been fully proofread.

द्वितीयाश्वासः
 
भवताम्, अत्रभवतां
 
सनकसनन्दनसनत्कुमारादिमहायोगिनां, मूकेष्विव
वाग्ग्मिनां, मूर्खेष्विव बुद्धिमताम्, अन्धेष्विव चक्षुष्मताम्, अधनेष्विव
महेश्वराणां, कीटेष्विव सरीसृपाणां, सरीसृपेष्विव चतुष्पदां, चतुष्पा-
त्स्विव मानवानां, मानवेष्विव महीभृतां, महीभृत्स्विव मरुतां, मरुत्स्विव
मरुत्वतो, मरुत्वत्यपि पतन्तीमवज्ञामुकुळितां दृशमवलोकयन्तः शृण्व-
न्तश्च तेषामेव 'हन्त वराकश्शतमन्युर्नामायमेव परितोष्य यश्शतेनाश्वमे-
पर्यन्तं त्वयात्रैव वर्तितव्यमितीश्वरनियोगः । 'प्रक्रिया त्वधिकारस्स्यात्'
इत्यमरः। स एव मलं पापम् । 'मलोऽस्त्री पापविकिट्टानि' इत्यमरः । तस्य,
क्षपणाय केवलं पापनाशायैव, क्षाळनायेति यावत् । अनुत्तरं स्वापेक्षया तृष्णान्तर-
रहितं, श्रेष्ठमिति यावत् । 'श्रेष्ठेऽनुदीच्यां प्रतिवाग्धाने च विष्वनुत्तरम्' इति रत्न-
माला । योगै: यमाद्यष्टाङ्गयोगः, ऐश्वर्यम् अणिमादिलक्षणम्, अनुभवतां भजताम्,
अत्रभवतां पूज्यानामित्यर्थः । सनकसनन्दनसनत्कुमारा एवादयो येषां, तथाविधा
योगिनो ध्यानिनः । 'योगस्सन्नहनोपायध्यानसङ्गतियुक्तिषु' इत्यमरः । तेषां
सम्बन्धिनी:, वाच एषां सन्तीत्यर्थे 'वाचो ग्मिनिः' (5-2-124) इति म्मिन्प्रत्यये
वाग्ग्मिन इति रूपम्। तेषामतिवक्तृणां । 'वाचोयुक्तिपटुर्वाग्म्मी' इत्यमरः । मूकेषु
वाग्व्यापाररहितेषु यथेत्यर्थः । 'अवाचि मूकोऽथ मनः' इत्यमरः । बुद्धिमतां
विवेकिनाम् । प्रशंसायां मतुप् । मुग्धेष्विव मूढेषु यथेत्यर्थ: । 'मुग्धस्सुन्दरमूढयो: '
इत्यमरः । चक्षुष्मतां विपुलचक्षुष्काणाम् अन्धेष्विव हग्रहितेषु यथेत्यर्थः ।
'किलासी सिध्मलोऽन्धोऽदृक्' इत्यमरः । महेश्वराणां महैश्वर्यशालिनाम्, अघनेष्विव
दरिद्रेषु यथेर्थ: । सरीसृपाणां सर्पाणाम् । 'चक्री व्याळस्सरीसृपः' इत्यमरः ।
कीटेष्विव क्रिमिविशेषेषु यथेत्यर्थः । चतुष्पदां गोव्याघ्रादीनां, सरीसृपेष्विव सपेंषु
यथेत्यर्थः। मानवानां, चतुष्पात्विव पशुषु यथेत्यर्थः । महीभृतां राज्ञां, मानवेष्विव
नरेषु यथेत्यर्थः । मरुतां देवानाम् । 'हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ'
इत्यमरः । महीभृत्स्विव राजसु यथेत्यर्थः । मरुत्वतः इन्द्रस्य । 'इन्द्रो मरुत्वान्' मघवा
इत्यमरः । मरुत्स्विव देवेषु यथेत्यर्थः । मरुत्वति इन्द्रेऽपि, तथा पतन्तीं, अव
 
1. "आलजाटचौ बहुभाषिणि" (पा.सू. 5-2-125) 'कुत्सित इति वक्तव्यम्'-
कुत्सितं बहु भाषते – वाचालः, वाचाटः, यस्तु सम्यक् बहु भाषते स वाग्ग्मीत्येव–इत्यनु-
शासनम् ॥
 
2, " तथा पतन्तीम्" – व्याख्यापाठः, "पतन्तीम्'' मूलपाठः ॥