This page has been fully proofread twice.

कक्ष्याभेदान् दिवः, तपोभिरपि तपोलोकसमीपमापेदिरे । प्रविष्टमात्राश्च ते परिहृतरजस्तमोगन्धानुबन्धतया परिणतसत्त्वैकसारेषु तत्रत्यवस्तुषु महीचरा इव महेन्द्रभोगेष्वदृष्टचरं विशेषमालक्षयन्तो विसिष्मियिरे ।
 
अपिच पुनरात्मविज्ञाननिरस्तावरणतया निस्सीमविकसदकृत्रिमज्योतिषाम्, अधिकारमलक्षपणाय केवलमनुत्तरं योगैश्वर्यमनु-
 
[commentary]
 
साधारणं सुलभं, आतिथ्यं अतिथेः क्रियमाणं अग्रदानादिलक्षणं कर्मापि । 'क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि' इत्यमरः । गूढ:ढः इतराविदितः, यः सञ्चारः तद्वशात्, अलभमानाः अप्राप्नुवन्तः, दानवसम्बन्धिनीनां सेनानां, गमनागमनयोः उचितान् योग्यान्, कानपि कतिचिदपि, दिवस्स्वर्गसम्बन्धिनः, कक्ष्याणां धनिकागारप्रकोष्ठावृतप्रदेशानां, भेदान् प्रभेदान् । अत्रायं विवेकः -- आवृतो द्वारप्रदेशः, कक्ष्या अनावृतो द्वारप्रदेशोऽङ्कमिति । कथञ्चित् कृच्छ्रेण, अतिलङ्घ्य अतिक्रम्य, 'कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने' इत्यमरः । 'कक्ष्या कच्छे वरत्रायां काञ्च्यां गेहप्रकोष्ठके' इति नानार्थरत्नमाला । तपोभिरपि कृच्छ्रचान्द्रायणादिभिरपि, दुरापं दुर्लभं, तपोलोकस्य सत्यलोकस्य, समीपं अन्तिकं, आपेदिरे प्रापुः । प्रविष्टमालाश्च प्रविशन्त एव, ते देवाः, परिहृतः विसृष्टः, रजस्तमसोः गुणयोः, गन्धः [^१]लेशः तस्यानुबन्धो येषां तेषां भावस्तत्ता तया । परिणतः प्राप्तः, सत्त्वं सत्त्वगुण एव, एकसारो मुख्यस्थिरांशो, येषां ते, तथाभूतेषु, तत्रत्यानि तत्र भवानि, वस्तूनि पदार्थाः, तेषु, महीचरा भूलोकवासिनः, महेन्द्रस्य देवेन्द्रस्य, भुज्यन्त इति भोगाः विषयाः, तेष्विव अदृष्टचरं अदृष्टपूर्वम् । 'भूतपूर्वे चरटू' (पा. सू. ५.३.५३) इति चरट्प्रत्ययः । विशेषं वैलक्षण्यं, आलक्षयन्तः पश्यन्तस्सन्तः, विसिष्मियिरे विस्मयं चक्रुः । सत्यलोकनिवासिनस्सावज्ञं स्वर्गिणो दृष्ट्वा परस्परं हसन्तो निनिन्दुरित्याह ॥ अपि च पुनरिति ॥ अपिच, आत्मज्ञानेन ब्रह्मज्ञानेन, निरस्तं दूरीकृतं, अविद्यालक्षणं आवरणं तिरस्करिणी, वस्त्रं, येषां तेषां भावस्तता तया । निस्सीमं निर्मर्यादं यथा तथा, विकसत्प्रकाशमानं, अकृत्रिमं नित्यं ज्योतिः ब्रह्मज्योतिर्येषां ते तथाभूतानां, अधिकारः एतावत्काल-
 
[^१] "गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः" इति विश्वात् गन्धः केलेशार्थकः ॥