2023-07-25 09:31:13 by Bharadwajraki
This page has been fully proofread once and needs a second look.
११०
नीलकण्ठविजये सव्याख्याने
कक्ष्याभेदान्
दिवः, तपोभिरपि तपोलोकसमीपमापेदिरे ।
प्रविष्टमात्राश्च ते परिहृतरजस्तमोगन्धानुबन्धतया परिणतसत्त्वकसारेषु
तत्र तत्रत्यवस्तुषु महीचरा इव महेन्द्रभोगेष्वदृष्टचरं विशेषमालक्षयन्तो
विसिष्मियिरे ।
अपिच पुनरात्मविज्ञाननिरस्तावरणतया निस्सीमविकसद-
कृत्रिमज्योतिषाम्, अधिकारमलक्षपणाय केवलमनुत्तरं योगेगैश्वर्यमनु-
।
[commentary]
साधारणं सुलभं, आतिथ्यं अतिथेः क्रियमाणं अग्रदानादिलक्षणं कर्मापि । 'क्रमा-
दातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि' इत्यमरः । गूढ: इतराविदितः यः सञ्चारः
तद्वशात्, अलभमानाः अप्राप्नुवन्तः, दानवसम्बन्धिनीनां सेनानां, गमनागमनयोः
उचितान् योग्यान्, कानपि कतिचिदपि, दिवस्स्वर्गसम्बन्धिनः, कक्ष्याणां धनिका-
गारप्रकोष्ठावृतप्रदेशानां, भेदान् प्रभेदान् । अत्राययं विवेकः –-- आवृतो द्वारप्रदेशः,
कक्ष्या अनावृतो द्वारप्रदेशोऽङ्कमिति । कथञ्चित् कृच्छेछ्रेण, अतिलङ्घघ्य अतिक्रम्य,
'कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने' इत्यमरः । 'कक्ष्या कच्छे वर-
त्रायां काञ्च्यां गेहप्रकोष्ठके' इति नानार्थरत्नमाला । तपोभिरपि कृच्छ्रचान्द्राय-
णादिभिरपि, दुरापं दुर्लभं, तपोलोकस्य सत्यलोकस्य, समीपपं अन्तिकं, आपेदिरे
प्रापुः । प्रविष्टमालाश्च प्रविशन्त एव, ते देवाः, परिहृत:तः विसृष्टः, रजस्तमसो:
सोः गुणयोः, गन्ध: 'धः [^१]लेश:शः तस्यानुबन्धो येषां तेषां भावस्तत्ता तया । परिणत:
तः प्राप्तः, सत्त्वं सत्त्वगुण एव, एकसारो मुख्यस्थिरांशो, येषां ते, तथाभूतेषु,
तत्रत्यानि तत्र भवानि, वस्तूनि पदार्थाः, तेषु, महीचरा भूलोकवासिनः, महेन्द्रस्य
देवेन्द्रस्य, भुज्यन्त इति भोगाः विषयाः, तेष्विव अदृष्टचरं अदृष्टपूर्वम्। 'भूतपूर्वे
चरटू' (पा. सू. 5-3-53५.३.५३) इति चरटूट्प्रत्ययः । विशेषषं वैलक्षण्यं, आलक्षयन्तः
पश्यन्तस्सन्तः, विसिष्मिथियिरे विस्मयं चक्रुः । सत्यलोकनिवासिनस्सावज्ञं स्वर्गिणो
दृष्ट्वा परस्परं हसन्तो निनिन्दुरित्याह ॥ अपि च पुनरिति ॥ अपिच, आत्म-
ज्ञानेन ब्रह्मज्ञानेन, निरस्तं दूरीकृतं, अविद्यालक्षणं आवरणं तिरस्करिणी, वस्त्रं,
येषां तेषां भावस्तता तया । निस्सीमं निर्मर्यादं यथा तथा, विकसत्प्रकाशमानं,
अकृत्रिमं नित्यं ज्योतिः ब्रह्मज्योतिर्येषां ते तथाभूतानां, अधिकार :रः एतावत्काल-
"
1.
[^१] "गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः" इति विश्वात् गन्धः केशार्थकः ॥