This page has not been fully proofread.

११०
 
नीलकण्ठविजये सव्याख्याने
 
कक्ष्याभेदान्
 
दिवः, तपोभिरपि तपोलोकसमीपमापेदिरे ।
प्रविष्टमात्राश्च ते परिहृतरजस्तमोगन्धानुबन्धतया परिणतसत्त्वकसारेषु
तत्र त्यवस्तुषु महीचरा इव महेन्द्रभोगेष्वदृष्टचरं विशेषमालक्षयन्तो
विसिष्मियिरे ।
 
अपिच पुनरात्मविज्ञाननिरस्तावरणतया निस्सीमविकसद-
कृत्रिमज्योतिषाम्, अधिकारमलक्षपणाय केवलमनुत्तरं योगेश्वर्यमनु-

 
साधारणं सुलभं आतिथ्यं अतिथेः क्रियमाणं अग्रदानादिलक्षणं कर्मापि । 'क्रमा-
दातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि इत्यमरः । गूढ: इतराविदितः यः सञ्चारः
तद्वशात्, अलभमानाः अप्राप्नुवन्तः, दानवसम्बन्धिनीनां सेनानां, गमनागमनयोः
उचितान् योग्यान्, कानपि कतिचिदपि, दिवस्वर्गसम्बन्धिनः, कक्ष्याणां धनिका-
गारप्रकोष्ठावृतप्रदेशानां, भेदान् प्रभेदान् । अत्राय विवेकः – आवृतो द्वारप्रदेशः,
कक्ष्या अनावृतो द्वारप्रदेशोऽङ्कमिति । कथञ्चित् कृच्छेण, अतिलङ्घय अतिक्रम्य,
'कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने' इत्यमरः । 'कक्ष्या कच्छे वर-
त्रायां काञ्च्यां गेहप्रकोष्ठके' इति नानार्थरत्नमाला । तपोभिरपि कृच्छ्रचान्द्राय-
णादिभिरपि, दुरापं दुर्लभं, तपोलोकस्य सत्यलोकस्य, समीप अन्तिकं, आपेदिरे
प्रापुः । प्रविष्टमालाश्च प्रविशन्त एव ते देवाः, परिहृत: विसृष्टः, रजस्तमसो:
गुणयोः, गन्ध: 'लेश: तस्यानुबन्धो येषां तेषां भावस्तत्ता तया । परिणत:
प्राप्तः, सत्त्वं सत्त्वगुण एव, एकसारो मुख्यस्थिरांशो, येषां ते, तथाभूतेषु,
तत्रत्यानि तत्र भवानि, वस्तूनि पदार्थाः, तेषु, महीचरा भूलोकवासिनः, महेन्द्रस्य
देवेन्द्रस्य, भुज्यन्त इति भोगाः विषयाः, तेष्विव अदृष्टचरं अदृष्टपूर्वम्। 'भूतपूर्वे
चरटू' (पा. सू. 5-3-53) इति चरटूप्रत्ययः । विशेष वैलक्षण्यं आलक्षयन्तः
पश्यन्तस्सन्तः, विसिमिथिरे विस्मयं चक्रुः । सत्यलोकनिवासिनस्सावज्ञं स्वर्गिणो
दृष्ट्वा परस्परं हसन्तो निनिन्दुरित्याह ॥ अपि च पुनरिति ॥ अपिच, आत्म-
ज्ञानेन ब्रह्मज्ञानेन, निरस्तं दूरीकृतं, अविद्यालक्षणं आवरणं तिरस्करिणी, वस्त्रं,
येषां तेषां भावस्तता तया । निस्सीमं निर्मर्यादं यथा तथा, विकसत्प्रकाशमानं,
अकृत्रिमं नित्यं ज्योतिः ब्रह्मज्योतिर्येषां ते तथाभूतानां, अधिकार : एतावत्काल-
"
 
1. "गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः" इति विश्वात् गन्धः केशार्थकः ॥