This page has been fully proofread once and needs a second look.

अतिनीचरक्षःपिशाचमदिरागण्डूषदूषिaतमन्दाकिनीतीरतरुषण्डगूढचरदेवर्षिमण्डलम्, आखण्डल नगरोपशल्यमन्तः करणशल्यमालोकयन्तः, पुराहंसावतंसितैस्सर्वगामिभिरप्सरोजनतौर्यत्रिकालंकृतैर्विमानैरतिवाह्यमानतयाऽगृह्यमाणतत्तत्प्रदे- शसौन्दर्यमगृह्यमाणद्राघिमाणमध्वानमधुना पद्भ्यामेवाक्रम्यमाणतया गृहीतविपरीतमतिक्रामन्तः, पदेपदे श्राम्यन्तः पथि, पथिकजनसाधारणमपि तत्तत्पथेष्वातिथ्यं गूढसञ्चारवशादलभमानाः, दानवसेनागतागतोचितान् कथञ्चिदतिलङ्घ्य कानपि
 
[commentary]
 
संयोजिता । दूषितेत्यर्थः । या मन्दाकिनी गङ्गा, तस्यास्तीरे ये तरवः, तेषां षण्डे, गूढं अविदितं यथा तथा, चरं सञ्चारि, देवर्षीणां सुरमुनीनां, मण्डलं समूहो, यस्मिन् तत् । अत एव अन्तःकरणशल्यं हृदयकण्टकमिव स्थितं, नगरस्यामरावत्याः उपशल्यं ग्रामान्तप्रदेशम्। 'ग्रामान्तमुपशल्यं स्यात्' इत्यमरः । आलोकयन्तः पश्यन्तस्सन्तः । पुरा स्वर्गनिवासकाले, हंसैः, अवतंसितैः सञ्जातपीडैः, हंसविभूषितैरिति यावत् । सर्वत्र गन्तुं शीलं येषां ते सर्वगामिनः तथाभूतैः । अप्सरोजनैः, आरप्स्यमाणं करिष्यमाणं, यत्तौर्यत्रिकं नृत्तगीतवाद्यानां त्रयम् । 'तौर्यत्रिकं नृतगीतवाद्यं नाट्यमिदं त्रयम्' इत्यमरः । तेन अलङ्कृतैः मण्डितैः, विमानैः, अतिवाह्यमानतया सन्तीर्यमाणतया, अगृह्यमाणमविदितं, ते च ते प्रदेशाश्च तत्तत्प्रदेशाः, तेषां सौन्दर्यं कामनीयकं, यस्य स तथाभूतम् ।
एवमगृह्यमाणं अनवगतं, [^१]द्राघिमाणं दैर्घ्यं, यस्य स तथाभूतम् । अधुना पद्भ्यां पादाभ्यां आक्रम्यमाणतया क्षुण्णतया । अक्रममाणतयेति पाठे प्रतिष्ठमानतयेत्यर्थः । गृहीतं ज्ञातं, तद्विपरीतं पूर्वोक्ताद्विलक्षणकामनीयकलक्षणं विभेदः, यस्य स तथाभूतम् । अयं भावः विमानसञ्चारदशायां देवैः पूर्वं यत्र यत्र कामनीयकं दैर्घ्यं च दृष्टं नाभूत्, इदानीं पादसञ्चारदशायां तत्र तैरेव देवैः पूर्वस्माद्विपरीतमतीव दैर्घ्यं अतीव रामणीयकं च दृष्टमभूदिति बोध्यम् । अतिक्रामन्तः अतिगच्छन्तः,
पथि मार्गे, पदे पदे प्रतिपदमित्यर्थः । श्राम्यन्तः आयस्यन्तः । किञ्च ते च ते पन्थानश्च तत्तत्पथाः, तेषु मार्गेष्वित्यर्थः । पथिकजनानां पान्थानां,
 
a. रूषित-दूषित-इति पाठद्वयमपि व्याख्यातम् ।
 
[^१] दीर्घस्य भावः इति विग्रहे 'पृथ्वादिभ्य इमनिज् वा' (पा.सू. ५.१.१२२) इत्यनेन इमनिचि 'प्रियस्थिर....' (पा. सू. ६.४.१५७) इत्यादिना द्राघादेशः प्रकृतेरिति भावः ॥