2023-07-25 09:13:34 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  द्वितीयाश्वासः
  
  
  
   
  
  
  
  १०९
  
  
  
   
  
  
  
  अतिनीचरक्षःपिशाचमदिरागण्डूषदूषि aतमन्दाकिनीतीरतरुषण्डगूढचरदेव-
  
  
  
  र्षिमण्डलम्, आखण्डल नगरोपशल्य मन्तः करणशल्यमालोकयन्तः,
  
  
  
   पुराहंसावतंसितैस्सर्वगामिभिरप्सरोजनतौर्यत्रिकालंकृतैर्विमानै रतिवाह्य
  
  
  
  मानतयाऽगृह्यमाणतत्तत्प्रदे- शसौन्दर्यमगृह्यमाणद्राघिमाणमध्वानमधुना
  
  
  
   पद्भभ्यामेवाक्रम्यमाणतया गृहीतविपरीतमतिक्रामन्तः, पदेपदे श्राम्यन्तः
  
  
  
   पथि, पथिकजनसाधारणमपि तत्तत्पथेष्वातिथ्यं गूढसञ्चारवशादल-
  
  
  
  भमानाः, दानवसेनागतागतोचितान् कथञ्चिदतिलङ्घघ्य कानपि
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  ,
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  संयोजिता । दूषितेत्यर्थः । या मन्दाकिनी गङ्गा, तस्यास्तीरे ये तरवः, तेषां
  
  
  
   षण्डे, गूढं अविदिततं यथा तथा, चरं सञ्चारि, देवर्षीणां सुरमुनीनां, मण्डलं
  
  
  
   समूहो, यस्मिन् तत् । अत एव अन्तःकरणशल्यं हृदयकण्टकमिव स्थितं,
  
  
  
   नगरस्यामरावत्याः उपशल्यं प्ग्रामान्तप्रदेशम्। 'ग्रामान्तमुपशल्यं स्यात्' इत्यमरः ।
  
  
  
   आलोकयन्तः पश्यन्तस्सन्तः । पुरा स्वर्गनिवासकाले, हंसैः, अवतंसितैः
  
  
  
   सञ्जातपीडै:डैः, हंसविभूषितैरिति यावत् । सर्वत्र गन्तुं शीलं येषां ते सर्वगामिनः
  
  
  
   तथाभूतैः । अप्सरोजनैः, आरप्स्यमाणं करिष्यमाणं, यत्तौर्यत्रिकं नृत्तगीतव
  
  
  
  वाद्यानां त्रयम् । 'तौर्यत्रिकं नृतगीतवाद्यं नाट्यमिदं त्रयम्' इत्यमरः । तेन अलङ्कृतैः
  
  
  
   मण्डितैः, विमानैः, अतिवाह्यमानतया सन्तीर्यमाणतया, अगृह्यमाणमविदितं,
  
  
  
   ते च ते प्रदेशाश्च तत्तत्प्रदेशाः, तेषां सौन्दर्ययं कामनीयकं, यस्य स तथाभूतम् ।
  
  
  
  
  
  
  
  एवमगृह्यमाणं अनवगतं, '[^१]द्राघिमाणं दैर्घ्ययं, यस्य स तथाभूतम् । अधुना पद्धभ्यां
  
  
  
   पादाभ्यां आक्रम्यमाणतया क्षुण्णतया । अक्रममाणतयेति पाठे प्रतिष्ठमानतयेत्यर्थः ।
  
  
  
   गृहीतं ज्ञातं, तद्विपरीततं पूर्वोक्ताद्विलक्षणकामनीय कलक्षणं विभेदः, यस्य स तथाभू-
  
  
  
  तम् । अयं भावः विमानसञ्चारदशायां देवैः पूर्वं यत्र यत्र कामनीयकं दैर्घ्ययं च दृष्टं नाभूत्, इदानीं पादसञ्चारदशायां तत्र तैरेव देवैः पूर्वस्माद्विपरीतमतीव दैर्घ्यं अतीव रामणीयकं च दृष्ट
  
  
  
  नाभूत्, इदानीं पादसञ्चारदशायां तत्र तैरेव देवैः पूर्वस्माद्विपरीतमतीव दैर्घ्यं
  
  
  
  अतीव रामणीयकं च दृष्टमभूदिति बोध्यम् । अतिक्रामन्तः अतिगच्छन्तः,
  
  
  
  पथ
  
  
  
  पथि मार्गे, पदे पदे प्रतिपदमित्यर्थः । श्राम्यन्तः आयस्यन्तः । किञ्च ते च
  
  
  
   ते पन्थानश्च तत्तत्पथाः, तेषु मार्गेष्वित्यर्थः । पथिकजनानां पान्थानां,
  
  
  
   
  
  
  
  च
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  a. रूषित -दूषित-इति पाठद्वयमपि व्याख्यातम् ।
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] दीर्घस्य भावः इति विग्रहे 'पृथ्वादिभ्य इमनिज् वा' (पा.सू. 5-1-122५.१.१२२) इत्यनेन
  
  
  
   इमनिचि 'प्रियस्थिर....' (पा. सू. 6-4-157६.४.१५७) इत्यादिना द्वाराघादेशः प्रकृतेरिति भावः ॥