2023-06-05 16:39:57 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः
१०९
अतिनीचरक्षःपिशाचमदिरागण्डूषदूषि तमन्दाकिनीतीरतरुषण्डगूढचरदेव-
र्षिमण्डलम्, आखण्डल नगरोपशल्य मन्तः करणशल्यमालोकयन्तः,
पुराहंसावतंसितैस्सर्वगामिभिरप्सरोजनतौर्यत्रिकालंकृतैर्विमानै रतिवाह्य
मानतयाऽगृह्यमाणतत्तत्प्रदेशसौन्दर्यमगृह्यमाणद्राघिमाणमध्वानमधुना
पद्भयामेवाक्रम्यमाणतया गृहीतविपरीतमतिक्रामन्तः, पदेपदे श्राम्यन्तः
पथि, पथिकजनसाधारणमपि तत्तत्पथेष्वातिथ्यं गूढसञ्चारवशादल-
भमानाः, दानवसेनागतागतोचितान् कथञ्चिदतिलङ्घय कानपि
-
,
संयोजिता । दूषितेत्यर्थः । या मन्दाकिनी गङ्गा, तस्यास्तीरे ये तरवः, तेषां
षण्डे, गूढं अविदित यथा तथा, चरं सञ्चारि, देवर्षीणां सुरमुनीनां, मण्डलं
समूहो, यस्मिन् तत् । अत एव अन्तःकरणशल्यं हृदयकण्टकमिव स्थितं,
नगरस्यामरावत्याः उपशल्यं प्रामान्तप्रदेशम्। 'ग्रामान्तमुपशल्यं स्यात्' इत्यमरः ।
आलोकयन्तः पश्यन्तस्सन्तः । पुरा स्वर्गनिवासकाले, हंसैः, अवतंसितैः
सञ्जातपीडै:, हंसविभूषितैरिति यावत् । सर्वत्र गन्तुं शीलं येषां ते सर्वगामिनः
तथाभूतैः । अप्सरोजनैः, आरप्स्यमाणं करिष्यमाणं, यत्तौर्यत्रिकं नृत्तगीतव
द्यानां त्रयम् । 'तौर्यत्रिकं नृतगीतवाद्यं नाट्यमिदं त्रयम्' इत्यमरः । तेन अलङ्कृतैः
मण्डितैः, विमानैः, अतिवाह्यमानतया सन्तीर्यमाणतया, अगृह्यमाणमविदितं,
ते च ते प्रदेशाश्च तत्तत्प्रदेशाः, तेषां सौन्दर्य कामनीयकं, यस्य स तथाभूतम् ।
एवमगृह्यमाणं अनवगतं, 'द्राघिमाणं दैर्घ्य, यस्य स तथाभूतम् । अधुना पद्धयां
पादाभ्यां आक्रम्यमाणतया क्षुण्णतया । अक्रममाणतयेति पाठे प्रतिष्ठमानतयेत्यर्थः ।
गृहीतं ज्ञातं, तद्विपरीत पूर्वोक्ताद्विलक्षणकामनीय कलक्षणं विभेदः, यस्य स तथाभू-
तम् । अयं भावः विमानसञ्चारदशायां देवैः पूर्वं यत्र यत्र कामनीयकं दैर्घ्य च दृष्ट
नाभूत्, इदानीं पादसञ्चारदशायां तत्र तैरेव देवैः पूर्वस्माद्विपरीतमतीव दैर्घ्यं
अतीव रामणीयकं च दृष्टमभूदिति बोध्यम् । अतिक्रामन्तः अतिगच्छन्तः,
पथ मार्गे, पदे पदे प्रतिपदमित्यर्थः । श्राम्यन्तः आयस्यन्तः । किञ्च ते च
ते पन्थानश्च तत्तत्पथाः, तेषु मार्गेष्वित्यर्थः । पथिकजनानां पान्थानां,
च
a रूषित दूषित-इति पाठद्वयमपि व्याख्यातम् ।
1. दीर्घस्य भावः इति विग्रहे 'पृथ्वादिभ्य इमनिज् वा' (पा.सू. 5-1-122) इत्यनेन
इमनिचि 'प्रियस्थिर....' (पा. सू. 6-4-157) इत्यादिना द्वाघादेशः प्रकृतेरिति भावः ॥