2023-09-04 05:27:10 by Bharadwajraki
This page has been fully proofread twice.
सुत्राम्णो वचसि चित्रीयमाणश्चित्रशिखण्डिजः सममाखण्डलादिभिस्सत्यलोकमभिप्रतस्थे[^१] ।
अमराश्च तमनुवर्तमानाः, वर्तमानाः पथि वैमानिकानां, दैत्यदानवयातुधानाध्यासितानि सिद्धचारणविद्याधराद्यावसथानि विलङ्घ्य ततोऽविदूरादुत्सन्नकिन्नरीगानचातुर्यम्, उपशान्तगान्धर्वतौर्यमौखर्यम्, असम्भावितकर्मदेवसम्मर्दम्, अनाशङ्कनीयब्रह्मर्षिसञ्चारसङ्कथम्,
[commentary]
तथेति मन्तव्यं ज्ञातव्यं इति, कृतव्यवसायस्य बद्धनिश्चयस्य, सुत्राम्णः इन्द्रस्य, वचसि, चित्रीयमाणः चित्रं कुर्वाणः, चित्रशिखण्डिजो वाचस्पतिः, आखण्डलादिभिस्सह इन्द्रादिभिस्समं, सत्यसंज्ञिकः लोकः, तं सत्यलोकं ब्रह्मलोकं प्रति, अभिप्रतस्थे ययौ । पथिकदेवानां वृत्तं वर्णयन् त एव सत्यलोकसमीपमापुरित्याह।॥ अमराश्चेति ॥ तमिन्द्रमनुवर्तमानाः अनुगच्छन्तः, अत एव वैमानिकानां विमानचारिणां, पथि मार्गे, वर्तमानाः, प्रतिष्ठमानाः, अमराश्च, दैत्यदानवयातुधानैः राक्षसप्रभेदैः अध्यासितानि अध्युषितानि, आक्रान्तानीति भावः । सिद्धचारणविद्याधरराणां देवयोनिविशेषाणाम् । आवसथानि स्थानानि । 'स्थानावसथवास्तु च' इत्यमरः । विलङ्घ्य अतिलङ्घ्य, ततः, विदूरात्[^२] विशेषतो दूरदेशे अवस्थायेत्यर्थः । 'ल्यब्लोपे कर्मण्यधिकरणे च' (वा. १.४.३१) इत्यधिकरणवाचकात् पञ्चमी । अथवा ततः स्वीयमार्गात् किञ्चिद्गळित्वा, अविदूरात् समीपे अवस्थायेत्यर्थः । उत्सन्नं विनष्टं किन्नरीणां किन्नरस्त्रीणां, गानचातुर्यम् आलापवैदग्ध्यं यस्मिन्
तत् । उपशान्तं अप्रवृत्तं गान्धर्वं गन्धर्वसम्बन्धि, तौर्यं मुरजादिसम्बन्धि मौखर्यं नादो, यस्मिन् तत् । 'तुरी' धातोः 'ऋहलोर्ण्यत्' (३.३.१२१) इति ण्यत्प्रत्ययः । ततः गुणं बाधित्वा बाहुलकात् 'हलि च' (८.२.७७) इति दीर्घः । ततः तूर्यमिति रूपम् । तूर्यं मुरजादि, तत्सम्बन्धि तौर्यमिति प्रक्रिया । असम्भावितः असम्पादितः, कर्मदेवानां सम्बन्धी, सम्मर्दः पुञ्जीभवनं यस्मिन् तत् । अनाशङ्कनीया असम्भावनीया ब्रह्मर्षीणां सञ्चारस्य सङ्कथा यस्मिन् तत् । अतिनीचाः, यानि रक्षांसि ये पिशाचाः, तेषां, मदिरागण्डूषेण मद्यष्ठीवनेन, रूषिता
[^१] 'समवप्रविभ्यः स्थः' (पा. सू. १.३.३२) इत्यनेनात्मनेपदम् ॥
[^२] 'अबिविदूरात्' 'विदुरात्' -- इति पाठद्वयमप्यङ्गीकृत्य व्याख्यातम् ॥
अमराश्च तमनुवर्तमानाः, वर्तमानाः पथि वैमानिकानां, दैत्यदानवयातुधानाध्यासितानि सिद्धचारणविद्याधराद्यावसथानि विलङ्घ्य ततोऽविदूरादुत्सन्नकिन्नरीगानचातुर्यम्, उपशान्तगान्धर्वतौर्यमौखर्यम्, असम्भावितकर्मदेवसम्मर्दम्, अनाशङ्कनीयब्रह्मर्षिसञ्चारसङ्कथम्,
[commentary]
तथेति मन्तव्यं ज्ञातव्यं इति, कृतव्यवसायस्य बद्धनिश्चयस्य, सुत्राम्णः इन्द्रस्य, वचसि, चित्रीयमाणः चित्रं कुर्वाणः, चित्रशिखण्डिजो वाचस्पतिः, आखण्डलादिभिस्सह इन्द्रादिभिस्समं, सत्यसंज्ञिकः लोकः, तं सत्यलोकं ब्रह्मलोकं प्रति, अभिप्रतस्थे ययौ । पथिकदेवानां वृत्तं वर्णयन् त एव सत्यलोकसमीपमापुरित्याह

[^२] 'अ