2023-07-25 08:59:14 by Bharadwajraki
This page has been fully proofread once and needs a second look.
  
  
  
  सुत्राम्णो वचसि चित्रीयमाणश्चित्रशिखण्डिजः सममाखण्डलादिभिस्सत्यलोकमभिप्रतस्थे[^१] ।
  
  
  
   
  
  
  
अमराश्च तमनुवर्तमानाः, वर्तमानाः पथि वैमानिकानां, दैत्य-
  
  
  
  दानवयातुधानाध्यासितानि सिद्धचारणविद्याधराद्यावसथानि विलड़्ङ्घ्य
  
  
  
   ततोऽविदूरादुत्सन्नकिन्नरीगानचातुर्यम्, उपशान्तगान्धर्वतौर्यमौख-
  
  
  
  र्यम्, असम्भावितकर्मदेवसम्मर्दम्, अनाशङ्कनीयब्रह्मर्षिसञ्चारसङ्कथम्,
  
  
  
   
  
  
  
  ।[commentary]
  
  
  
   
  
  
  
तथेति मन्तव्यं ज्ञातव्यं इति, कृतव्यवसायस्य बद्धनिश्चयस्य, सुत्राम्णः इन्द्रस्य,
  
  
  
   वचसि, चित्रीयमाणः चित्रं कुर्वाणः, चित्रशिखण्डिजो वाचस्पतिः, आखण्डलादि-
  
  
  
  भिस्सह इन्द्रादिभिस्समं, सत्यसंज्ञिक :कः लोकः, तं सत्यलोकं ब्रह्मलोकं प्रति, अभि-
  
  
  
  प्रतस्थे ययौ । पथिकदेवानां वृत्तं वर्णयन् त एव सत्यलोकसमीपमापुरित्याह। अम-
  
  
  
रा । अमराश्चेति ॥ तमिन्द्रमनुवर्तमाना:नाः अनुगच्छन्तः, अत एव वैमानिकानां विमान-
  
  
  
  चारिणां, पथि मार्गे, वर्तमानाः, प्रतिष्ठमानाः, अमराश्च, दैत्यदानवयातुधानैः
  
  
  
   राक्षसप्रभेदैः अध्यासितानि अध्युषितानि, आक्रान्तानीति भावः । सिद्धचारण-
  
  
  
  विद्याधरराणां देवयोनिविशेषाणाम् । आवसथानि स्थानानि । 'स्थानावसथवास्तु
  
  
  
   च' इत्यमरः । विलङ्घ्य अतिलङ्घ्य, ततः, विदूरात्[^२] विशेषतो दूरदेशे अवस्था
  
  
  
  येत्यर्थः । 'ल्यब्लोपे कर्मण्यधिकरणे च' (वा. 1-4-31१.४.३१) इत्यधिकरणवाचकात् पञ्चमी ।
  
  
  
   अथवा ततः स्वीयमार्गात् किञ्चिद्गळित्वा, अविदूरात् समीपे अवस्थायेत्यर्थः ।
  
  
  
   उत्सन्नं विनष्टटं किन्नरीणां किन्नरस्त्रीणां, गानचातुर्यम् आलापवैदुदग्ध्यं यस्मिन्
  
  
  
  तत् । उपशान्तं अप्रवृत्तं गान्धर्ववं गन्धर्वसम्बन्धि तौर्ययं मुरजादिसम्बन्धि मौखर्य
  
  
  
  यं नादो, यस्मिन् तत् । 'तुरी' धातो:तोः 'ऋहलोर्ण्र्ण्यत्' (3-3-121३.३.१२१) इति ण्यत्प्रत्ययः ।
  
  
  
   ततः गुणं बाधित्वा बाहुलकात् 'हलि च' (8-2-77८.२.७७) इति दीर्घः । ततः तूर्यमिति
  
  
  
   रूपम् । तूर्येयं मुरजादि, तत्सम्बन्धि तौर्यमिति प्रक्रिया । असम्भावितः असम्पा-
  
  
  
  दितः, कर्मदेवानां सम्बन्धी सम्मर्द:, सम्मर्दः पुञ्जीभवनं यस्मिन् तत् । अनाशङ्कनीया
  
  
  
   असम्भावनीया ब्रह्मर्षीणां सञ्चारस्य सङ्कथा यस्मिन् तत् । अतिनीचाः,
  
  
  
   यानि रक्षांसि ये पिशाचाः, तेषां, मदिरागण्डूषेण मद्यष्ठीवनेन, रूषिता
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
9
   
  
  
  
1.
   
  
  
  
2.
   
  
  
  
,
   
  
  
  
  [^१] 'समवप्रविभ्यः स्थः' (पा. सू. 1-3-32१.३.३२) इत्यनेनात्मनेपदम् ॥
  
  
  
   
  
  
  
[^२] 'अबिदूरात्' 'विदुरात्'.
  
  
  
   
  
  
  
   -
  
  
  
   
  
  
  
"
   
  
  
  
  - इति पाठद्वय मध्य श्री मप्यङ्गीकृत्य व्याख्यातम् ॥
  
  
  
   
  
  
  
  
अमराश्च तमनुवर्तमानाः, वर्तमानाः पथि वैमानिकानां, दैत्य
तथेति मन्तव्यं ज्ञातव्यं इति, कृतव्यवसायस्य बद्धनिश्चयस्य, सुत्राम्णः इन्द्रस्य,
रा
9
1.
2.
,
[^२] 'अबिदूरात्' 'विदुरात्'
"