This page has not been fully proofread.

१०८
 
नीलकण्ठविजये सव्याख्याने
 
सुत्राम्णो वचसि चित्रीय माणश्चित्रशिखण्डिजः सममाखण्डलादिभिस्स-
त्यलोकमभिप्रतस्थे
 
[^१] ।
 
अमराश्च तमनुवर्तमानाः, वर्तमानाः पथि वैमानिकानां, दैत्य-

दानवयातुधानाध्यासितानि सिद्धचारणविद्याधराद्यावसथानि विलमय,
ड़्घ्य
ततोऽविदूरादुत्सन्नकिन्नरीगानचातुर्यम्, उपशान्तगान्धर्वतौर्यमौख-

र्यम्, असम्भावितकर्मदेवसम्मर्दम्, अनाशङ्कनीयब्रह्मर्षिसञ्चारसङ्कथम्,
 

 

 

 
तथेति मन्तव्यं ज्ञातव्यं इति, कृतव्यवसायस्य बद्धनिश्चयस्य, सुत्राम्णः इन्द्रस्य,

वचसि, चित्रीयमाणः चित्रं कुर्वाणः, चित्रशिखण्डिजो वाचस्पतिः, आखण्डलादि-

भिस्सह इन्द्रादिभिस्समं, सत्यसंज्ञिक : लोकः, तं सत्यलोकं ब्रह्मलोकं प्रति, अभि-

प्रतस्थे ययौ । पथिकदेवानां वृत्तं वर्णयन् त एव सत्यलोकसमीपमापुरित्याह। अम-

राति ॥ तमिन्द्रमनुवर्तमाना: अनुगच्छन्तः, अत एव वैमानिकानां विमान-

चारिणां, पथि मार्गे, वर्तमानाः, प्रतिष्ठमानाः, अमराश्च, दैत्यदानवयातुधानैः

राक्षसप्रभेदैः अध्यासितानि अध्युषितानि, आक्रान्तानीति भावः । सिद्धचारण-

विद्याधरराणां देवयोनिविशेषाणाम् । आवसथानि स्थानानि । 'स्थानावसथवास्तु

च' इत्यमरः । विलङ्घ्य अतिलङ्घ्य, ततः, विदूरात् विशेषतो दूरदेशे अवस्था

येत्यर्थः । 'ल्यब्लोपे कर्मण्यधिकरणे च' (वा. 1-4-31) इत्यधिकरणवाचकात् पञ्चमी ।

अथवा ततः स्वीयमार्गात् किञ्चिद्गळित्वा, अविदूरात् समीपे अवस्थायेत्यर्थः ।

उत्सन्नं विनष्ट किन्नरीणां किन्नरस्त्रीणां, गानचातुर्यम् आलापवैदुग्ध्यं यस्मिन्

तत् । उपशान्तं अप्रवृत्तं गान्धर्व गन्धर्वसम्बन्धि तौर्य मुरजादिसम्बन्धि मौखर्य

नादो, यस्मिन् तत् । 'तुरी' धातो: 'ऋहलोण्र्ण्यत्' (3-3-121) इति ण्यत्प्रत्ययः ।

ततः गुणं बाधित्वा बाहुलकात् 'हलि च' (8-2-77) इति दीर्घः । ततः तूर्यमिति

रूपम् । तूर्ये मुरजादि, तत्सम्बन्धि तौर्यमिति प्रक्रिया । असम्भावितः असम्पा-

दितः, कर्मदेवानां सम्बन्धी सम्मर्द: पुञ्जीभवनं यस्मिन् तत् । अनाशङ्कनीया

असम्भावनीया ब्रह्मर्षीणां सञ्चारस्य सङ्कथा यस्मिन् तत् । अतिनीचाः,

यानि रक्षांसि ये पिशाचाः, तेषां, मदिरागण्डूषेण मद्यष्ठीवनेन, रूषिता
 

 
"
 

 
9
 

 
1.
 

 
2.
 
,
 

 
,
 
'समवप्रविभ्यः स्थः' (पा. सू. 1-3-32) इत्यनेनात्मनेपदम् ॥
 

 
'अबिदूरात्' 'विदुरात्'.
 
-
 

 
-
 
"
 

 
इति पाठद्वय मध्य श्री कृत्य व्याख्यातम् ॥