This page has been fully proofread twice.

भक्तव्यसनानवलोकनसङ्कल्पः । अथ साजात्याभिमानेन दुर्वासस एव वचनं [^१]सत्यापयितुमध्यवसायस्तदेहि, यत्र निनीषसि तत्र नेष्यामहे, येनानुकम्पयिष्यसि तेनानुकम्प्यामहे, सर्वथा न्यस्तात्मानो वयं भवच्चरणे, किं [^२]करचरणे कदाचिदस्ति जिज्ञासा कीदृशस्तवाभिप्राय इति, न यदि, किङ्करजनेऽपि मादृशि तथेति मन्तव्यं इति कृतव्यवसायस्य
 
[Commentary]
 
दिविचरान् भूचरान् भूचरयितुं दिविचरयितुं यथाकामं कर्तुं सामर्थ्यशालिनां युष्माकं अस्मदुद्धरणसामर्थ्यमस्ति वेत्यत्र सन्देहप्ररोह एव नास्तीति भावः । वक्तव्यमुक्त्वा तूष्णीम्भूते देवेन्द्रे विज्ञातरहस्यो गुरुः आखण्डलादिभिस्सह सत्यलोकं प्रति जगामेत्याह वाक्यद्वयेन ॥ तदिति ॥ तत्तस्मात्, पल्लवितैस्सञ्जातकिसलयैः, वचोभिरलं, बहूक्तिभिः प्रयोजनं नास्तीति भावः । भवतो भक्तानामस्माकं, यद्व्यसनं राज्यभ्रंशादि तदनवलोकने तददर्शने विषये, सङ्कल्पः मनोरथः ।
'सङ्कल्पः कर्म मानसम्' इत्यमरः । अस्ति यदि, अस्मान् नः, स्वयमप्रेरित इति भावः । अनुगृहाण अनुग्रहं कुरु । अस्मदीयसाम्राज्येन अस्मान् पुनस्संयोजयेत्यर्थः । अथ अथवा, समाना जातिः मुनित्वलक्षणा यस्य सः । सजातिर्दुर्वासाः, सजातेर्भावः साजात्यं, तस्मादभिमानेन प्रेम्णा, दुर्वाससः मुनेः वचनमेव, सत्यापयितुं सत्यं कर्तुं, अध्यवसायः निश्चयः यदि, तदा इहि गच्छ । 'इण् गतौ' इति धातोः लोटि इहीति रूपम् । यत्र निनीषसि नेतुमिच्छसि, प्रापयितुमिच्छसीत्यर्थः । तत्र नेष्यामहे यास्यामः । येनानुकम्पयिष्यसि तेनानुकम्प्यामहे अनुकम्पिता भवामः । अनुगृहीताः क्रियामहे इति यावत् । सर्वथा सर्वैः प्रकारैर्वयं, भवतः चरणे, न्यस्ताः समर्पिताः प्रतस्थे ययौ । आत्मानः कायाः येषां ते । 'आत्मा यत्नो धृतिर्बुद्धिस्स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । करचरणे हस्तपादादिविषये 'तवाभिप्रायः कीदृशः कथंभूतः' इति, कदाचित्, जिज्ञासा ज्ञातुमिच्छा, वः इति शेषः, अस्ति किं ? नेत्यर्थः । न यदि नास्ति यदि, मादृशि मद्विघेधे किङ्करजने । 'सेवकाः किङ्करा भृत्याः' इति रभसः ।
 
[^१] 'सत्यापयितुम्' -- 'सत्यापपाशरूपवीणातूल --' (पा. सू. ३.१.२५) इत्यादिना आपुगागमः ॥ आपुकः प्रातिपदिकावयवत्वात् प्राप्तोऽपि टिलोपः विधानसामर्थ्यान्निवर्तते ।
 
[^२] 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' (पा. सू. २.४.२) इत्यनेन प्राण्यङ्गत्वादेकवद्भावः 'करचरणम्' -- इति ॥