2023-06-05 16:39:56 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः
ºÈ
भक्तव्यसनानवलोकनसङ्कल्पः । अथ साजात्याभिमानेन दुर्वासस एव
वचनं 'सत्यापयितुमध्यवसायस्तदेहि, यत्र निनीषसि तत्र नेष्यामहे,
येनानुकम्पयिष्यसि तेनानुकम्प्यामहे, सर्वथा न्यस्तात्मानो वयं भव-
चरणे, किं करचरणे कदाचिदस्ति जिज्ञासा कीदृशस्तवाभिप्राय इति,
न यदि, किङ्करजनेऽपि मादृशि तथेति मन्तव्यं इति कृतव्यवसायस्य
दिविचरान् भूचरान् भूचरयितुं दिविचरयितुं यथाकामं कर्तुं सामर्थ्यशालिनां
युष्माकं अस्मदुद्धरणसामर्थ्यमस्ति वेत्यत्र सन्देहप्ररोह एव नास्तीति भावः ।
वक्तव्यमुक्त्वा तूणीम्भूते देवेन्द्रे विज्ञातरहस्यो गुरुः आखण्डलादिभिस्सह सत्य-
लोकं प्रति जगामेत्याह वाक्यद्वयेन ॥ तदिति ॥ तत्तस्मात्, पल्लवितैस्सञ्जात-
किसलयैः, वचोभिरलं, बहूक्तिभि: प्रयोजनं नास्तीति भावः । भवतो भक्ताना -
मस्माकं, यद्वयसनं राज्यभ्रंशादि तदनवलोकने तददर्शने विषये, सक्कल्प: मनोरथः ।
'सङ्कल्प:
कर्म मानसम्' इत्यमरः । अस्ति यदि, अस्मान् नः, स्वयमप्रेरित इति
भावः । अनुगृहाण अनुग्रहं कुरु । अस्मदीयसाम्राज्येन अस्मान् पुनस्संयोजये-
त्यर्थः । अथ अथवा, समाना जाति: मुनित्वलक्षणा यस्य सः । सजातिर्दुर्वासाः,
सजातेर्भाव: साजात्यं, तस्मादभिमानेन प्रेम्णा, दुर्वाससः मुनेः वचनमेव,
सत्यापयितुं सत्यं कर्तुं, अध्यवसाय: निश्चयः यदि, तदा इहि गच्छ ।
'इण् गतौ' इति धातो: लोटि इहीति रूपम् ।
यत्र निनीषसि नेतुमिच्छसि,
प्रापयितुमिच्छसीत्यर्थः । तत्र नेष्यामहे यास्यामः । येनानुकम्पयिष्यसि तेनानु-
कम्प्यामहे अनुकम्पिता भवामः । अनुगृहीताः क्रियामहे इति यावत् ।
सर्वथा सर्वैः प्रकारैर्वयं, भवतः चरणे, न्यस्ताः समर्पिता: प्रतस्थे ययौ ।
आत्मानः कायाः येषां ते । 'आत्मा यत्नो धृतिर्बुद्धिस्वभावो ब्रह्म वर्ष्म च '
इत्यमरः । करचरणे हस्तपादादिविषये 'तवाभिप्रायः कीदृशः कथंभूतः' इति,
कदाचित्, जिज्ञासा ज्ञातुमिच्छा, वः इति शेषः, अस्ति किं ? नेत्यर्थः । न यदि
नास्ति यदि, मादृशि मद्विघे किकरजने । 'सेवका: किङ्करा भृत्याः' इति रभसः ।
1. 'सत्यापयितुम्' –'सत्यापपाशरूपवीणातूल –' (पा. सू. 3-1-25) इत्यादिना
आपुगागमः ॥ आपुकः प्रातिपदिकावयवत्वात् प्राप्तोऽपि टिलोपः विधानसामर्थ्यान्निवर्तते ।
2. 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' (पा. सू. 2-4-2) इत्यनेन प्राण्यङ्गत्वा देकव-
द्भावः 'करचरणम्' – इति ॥
-
—