2023-09-04 05:08:40 by Bharadwajraki
This page has been fully proofread twice.
पयितुं, दिविचरान् भुवमवरोपयितुम्, आस्वादयितुं सुरापगाम्, आचमितुं सप्त सागरान्, विफलयितुं महास्त्राणि, विष्टम्भयितुं विश्वम्भरमपि [^१]प्रगल्भन्ते, तथा श्रुतिशतप्रतिपन्नयाथात्म्ये भवतो माहात्म्ये दण्डापूपिकान्यायघण्टाघोष एव नश्शरणम् ।
तदलं पल्लवितैर्वचोभिः, अनुगृहाण स्वयमस्मान्, अस्ति यदि
[commentary]
जयन्ति अरीनभिभवन्त्येव । न जीयन्ते न परिभूयन्त इति, ऐकान्त्यं प्रसिद्धिम् । 'एकान्तं निश्चिते शैघ्र्ये प्रसिद्धौ पुन्नपुंसकम्' इति रभसः । अनुसन्दधानाः ध्यायन्तस्सन्तः । एकांशमनुसन्दधत इत्येकः पाठः । वयं, इयदेतावत्, अपत्रपामहे लज्जामहे व्यथामहे च । संकल्पमात्रं भानमेव । [?] । 'संकल्पः कर्म मानसम्' इत्यमरः । चित्तस्फुरणमिति यावत् । साधनम् अस्मदुद्धरणनिमित्तं, यस्य स तथाभूतस्य, भवतः पुनः तव तु, अस्मत् अस्मासु विषये, अनुग्रहः दुःखापनयनलक्षणः प्रसादः, ईषत्करः अतीव सुकर इत्यर्थः । यथाहि भवता सजातीयाः भवज्जातीयाः, भवादृशा इत्यर्थः । मुनय एव, भूमौ चरन्तीति भूमिचराः, भूमिष्ठा इत्यर्थः । तान् दिवमारोपयितुं[^२] आरोहयितुं, त्रिशङ्कुं विश्वामित्र इवेति भावः । दिविचरान् स्वर्गवासिनः, भुवमवरोपयितुम् अवरोहयितुमित्यर्थः । सुरमुनयो नहुषमिवेति भावः । सुरापगां, आस्वादयितुं पातुं, जह्नुर्यथेति भावः । सप्त सागरन् आचमितुं, अगस्त्यो यथेति भावः । महास्त्राणि, विफलीकर्तुं व्यर्थयितुं, विश्वामित्रयुद्धे वसिष्ठो यथेति भावः । विश्वम्भरं वासुदेवमपि, विष्टम्भयितुं स्तब्धं कर्तुं, सनत्कुमारो यथेति भावः । प्रगल्भन्ते समर्था भवन्ति । तथा, श्रुतीनां शतेन अनेकेन, प्रतिपन्नं ज्ञातं, याथात्म्त्यं, यथात्मत्वं यस्य तत्तथाभूते, भवतः माहात्म्ये महिमनि विषये । घण्टाघोषशब्दस्य लक्षणया घण्टाघोषसदृशोऽर्थः । एवञ्च यथा घण्टायाः घोषः ध्वनिः, सर्वैः सेन्द्रियप्रबुद्धैः असन्देहं श्रूयते तथा सर्वैः तथाविधैः श्रूयमाणः दण्डापूपिकान्याय एव, नः शरणं रक्षकः । दण्डापूपिकान्यायो नाम दण्डो मूषिकैर्भक्षित इत्युक्ते दण्डगुम्फिता अपूपिका आखुभिर्भक्षिताः किमिति प्रष्टव्यांश एव न वर्तत इति । तथाच
[^१] 'प्रगल्भन्ते' -- 'गल्भ=धार्ष्ट्ये' -- इत्यस्मात् भौवादिकादात्मनेपदिनः प्रोपसृष्टात् लटि प्रथमपुरुषबहुवचने रूपम् ॥
[^२] 'रुहः पोऽन्यतरस्याम् (पा.सू. ७.३.४३) इति पादेशो वैकल्पिकः इति द्योतयति ॥