2023-07-24 05:20:49 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  १०६
  
  
  
   
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  पयितुं, दिविचरान् भुवमवरोपयितुम्, आस्वादयितुं सुरापगाम्, आच-
  
  
  
  मितुं सप्त सागरान्, विफलयितुं महास्त्राणि, विष्टम्भयितुं विश्वम्भरमपि
  
  
  
  ' [^१]प्रगल्भन्ते, तथा श्रुतिशतप्रतिपन्नयाथात्म्ये भवतो माहात्म्ये दण्डापू पिका-
  
  
  
  न्यायघण्टाघोष एव नश्शरणम् ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  तदलं पल्लवितैर्वचोभिः, अनुगृहाण स्वयमस्मान्, अस्ति यदि
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  जयन्ति अरीनभिभवन्त्येव । न जीयन्ते न परिभूयन्त इति, ऐकान्त्यं प्रसिद्धिम् ।
  
  
  
   'एकान्तं निश्चिते शैघ्रर्ये प्रसिद्धौ पुन्नपुंसकम् इति रभसः । अनुसन्दधानाः
  
  
  
   ध्यायन्तस्सन्तः । एकांशमनुसन्दधत इत्येकः पाठः । वयं, इयदेतावत्, अपत्र-
  
  
  
  पामहे लज्जामहे व्यथामहे च । संकल्पमात्ररं भानमेव । [१?] । 'संकल्पः कर्म मानसम्'
  
  
  
   इत्यमरः । चित्तस्फुरणमिति यावत् । साधनम् अस्मदुद्धरणनिमित्तं, यस्य स तथा-
  
  
  
  भूतस्य, भवतः पुनः तव तु, अस्मत् अस्मासु विषये, अनुग्रहः दुःखापनयन-
  
  
  
  लक्षण:णः प्रसादः, ईषत्करः अतीव सुकर इत्यर्थः । यथाहि भवता सजातीयाः
  
  
  
   भवज्जातीयाः, भवादृशा इत्यर्थः । मुनय एव, भूमौ चरन्तीति भूमिचराः,
  
  
  
   भूमिष्ठा इत्यर्थः । तान् दिवमारोपयितुं 2[^२] आरोहयितुं, त्रिशङ्कुकुं विश्वामित्र
  
  
  
   इवेति भाव:वः । दिविचरान् स्वर्गवासिनः, भुवमवरोपयितुम् अवरोहयितुमित्यर्थः ।
  
  
  
   सुरमुनयो नहुषमिवेति भावः । सुरापगां, आस्वादयितुं पातुं, जहुह्नुर्यथेति
  
  
  
   भावः । सप्त सागरन् आचमिंमितुं, अगस्त्यो यथेति भावः । महास्त्राणि,
  
  
  
   विफलीकर्तुं व्यर्थयितुं, विश्वामित्रयुद्धे वसिष्ठो यथेति भावः । विश्वम्भरं वासुदेवमपि,
  
  
  
   विष्टम्भयितुं स्तब्धं कर्तुतुं, सनत्कुमारो यथेति भावः । प्रगल्भन्ते समर्था भवन्ति ।
  
  
  
   तथा, श्रुतीनां शतेन अनेकेन, प्रतिपन्ननं ज्ञातं, याथात्म्त्यं, यथात्मत्वं यस्य
  
  
  
   तत्तथाभूते, भवतः माहात्म्ये महिमनि विषये । घण्टाघोषशब्दस्य लक्षणया
  
  
  
   घण्टाघोषसदृशोऽर्थः । एवञ्च यथा घण्टायाः घोष:षः ध्वनिः, सर्वैः सेन्द्रियप्रबुद्धैः
  
  
  
   असन्देहं श्रूयते तथा सर्वैः तथाविधैः श्रूयमाणः दण्डापूपिकान्याय एव, नः शरणं
  
  
  
   रक्षकः । दण्डापूपिकान्यायो नाम दण्डो मूषिकैर्भक्षित इत्युक्ते दण्डगुम्फिता
  
  
  
   अपूपिका आखुभिर्भक्षिताः किमिति प्रष्टव्यांश एव न वर्तत इति । तथाच
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] 'प्रगल्भन्ते' -- 'गल्भ =धार्ष्टर्ट्ये' •-- इत्यस्मात् भौवादिकादात्मनेपदिन:नः प्रोप-
  
  
  
  सृष्टात् लटि प्रथमपुरुषबहुवचने रूपम् ॥
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] 'रुहः पोऽन्यतरस्याम् (पा.सू.7-3-43 ७.३.४३) इति पादेशो वैकल्पिकः इति द्योतयति ॥