2023-06-05 16:39:56 by ambuda-bot
This page has not been fully proofread.
१०६
नीलकण्ठविजये सव्याख्याने
पयितुं, दिविचरान् भुवमवरोपयितुम् आस्वादयितुं सुरापगाम्, आच-
मितुं सप्त सागरान्, विफलयितुं महास्त्राणि, विष्टम्भयितुं विश्वम्भरमपि
'प्रगल्भन्ते, तथा श्रुतिशतप्रतिपन्नयाथात्म्ये भवतो माहात्म्ये दण्डापू पिका-
न्यायघण्टाघोष एव नश्शरणम् ।
तदलं पल्लवितैर्वचोभिः, अनुगृहाण स्वयमस्मान् अस्ति यदि
"
जयन्ति अरीनभिभवन्त्येव । न जीयन्ते न परिभूयन्त इति, ऐकान्त्यं प्रसिद्धिम् ।
'एकान्तं निश्चिते शैघ्रये प्रसिद्धौ पुन्नपुंसकम् इति रभसः । अनुसन्दधानाः
ध्यायन्तस्सन्तः । एकांशमनुसन्दधत इत्येकः पाठः । वयं, इयदेतावत्, अपत्र-
पामहे लज्जामहे व्यथामहे च । संकल्पमात्र भानमेव । [१] । 'संकल्पः कर्म मानसम्'
इत्यमरः । चित्तस्फुरणमिति यावत् । साधनम् अस्मदुद्धरणनिमित्तं, यस्य स तथा-
भूतस्य, भवतः पुनः तव तु, अस्मत् अस्मासु विषये, अनुग्रहः दुःखापनयन-
लक्षण: प्रसादः, ईषत्करः अतीव सुकर इत्यर्थः । यथाहि भवता सजातीयाः
भवज्जातीयाः, भवादृशा इत्यर्थः । मुनय एव, भूमौ चरन्तीति भूमिचराः,
भूमिष्ठा इत्यर्थः । तान् दिवमारोपयितुं 2 आरोहयितुं, त्रिशङ्कु विश्वामित्र
इवेति भाव: । दिविचरान् स्वर्गवासिनः, भुवमवरोपयितुम् अवरोहयितुमित्यर्थः ।
सुरमुनयो नहुषमिवेति भावः । सुरापगां, आस्वादयितुं पातुं, जहुर्यथेति
भावः । सप्त सागरन् आचमिंतुं, अगस्त्यो यथेति भावः । महास्त्राणि,
विफलीकर्तुं व्यर्थयितुं, विश्वामित्रयुद्धे वसिष्ठो यथेति भावः । विश्वम्भरं वासुदेवमपि,
विष्टम्भयितुं स्तब्धं कर्तु, सनत्कुमारो यथेति भावः । प्रगल्भन्ते समर्था भवन्ति ।
तथा, श्रुतीनां शतेन अनेकेन, प्रतिपन्न ज्ञातं, याथात्म्त्यं, यथात्मत्वं यस्य
तत्तथाभूते, भवतः माहात्म्ये महिमनि विषये । घण्टाघोषशब्दस्य लक्षणया
घण्टाघोषसदृशोऽर्थः । एवञ्च यथा घण्टायाः घोष: ध्वनिः, सर्वैः सेन्द्रियप्रबुद्धैः
असन्देहं श्रूयते तथा सर्वैः तथाविधैः श्रूयमाणः दण्डापूपिकान्याय एव, नः शरणं
रक्षकः । दण्डापूपिकान्यायो नाम दण्डो मूषिकैभक्षित इत्युक्ते गुम्फिता
अपूपिका आखुभिर्भक्षिताः किमिति प्रष्टव्यांश एव न वर्तत इति । तथाच
1. 'प्रगल्भन्ते' 'गल्भ =धाष्टर्ये' • इत्यस्मात् भौवादिकादात्मनेपदिन: प्रोप-
सृष्टात् लटि प्रथमपुरुषबहुवचने रूपम् ॥
2. 'रुहः पोऽन्यतरस्याम् (पा.सू.7-3-43) इति पादेशो वैकल्पिकः इति योतयति ॥