This page has been fully proofread twice.

भगवतीं श्रुतिमपि न विस्रम्भामहे । आजानतो हि राजानः कदाचिदाक्रामन्ति परान्, आक्रम्यन्ते च तैरिति [^१]चक्रनेमिक्रमस्सर्वजनीन एव । तदपि भवदीया जयन्त्येव न जीयन्त इत्यैकान्त्यमनुसन्दधतो वयमियदपत्रपामहे व्यथामहे च । भवतः पुनरीषत्करोऽस्मदनुग्रहः
सङ्कल्पमात्रसाधनस्य । यथा हि भवज्जातीया एव भूमिचरान् दिवमारो-
 
[Ccommentary]
 
कल्पितस्य, आनन्दस्य परं पारं पर्यवसानभूमिम्, अपश्यन्तः अजानन्तः, वयं देवाः, अस्मत् अस्माकं देवानामानन्दात् भवतः आनन्दं, अनेकशतानि गुणाः आवृत्तयो यस्य सः । 'गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इत्यमरः । तथाभूतमानमुपपादयन्तीं वदन्तीं, प्रतिपादयन्तीमिति यावत् । भगवतीं, श्रीमतीं, श्रुतिम् 'श्रोत्रियस्य चाकामहतस्य' इति प्राथमिकवाक्यमारभ्य 'स एको बृहस्पतेरानन्दः', इत्येतदन्तामानन्दवल्लीमपिa , न विस्रम्भामहे न विश्वसिमः, आप्तवाचोऽप्यनुभवपराहताश्चेत् कश्श्रद्दधीतेति भावः । लोकस्थितिमनुरुध्याह ॥ आजानेति ॥ 'जनी प्रादुर्भावे' इति धातोः भावे घञ्प्रत्यये जानमिति रूपं भवति । जानं च जनिरेव, जानमारभ्य आजानं, तस्मात् । 'इतराभ्योऽपि दृश्यन्ते' (५.३.१४) इति प्रथमायां तसिः । एवं च उत्पत्तिमारभ्येत्यर्थः । राजानः, कदाचित्परान्रिपून् । 'परोऽरिपरमात्मनोः' इत्यमरः । आक्रामन्ति जयन्तीत्यर्थः । कदाचित्तैररिभिराक्रम्यन्ते जीयन्त इति । चक्रस्य नेमेः अन्तभागस्येव, क्रमः रीतिः
स्वभाव इति यावत् । 'चक्रं रथाङ्गं तस्यान्ते नेमिस्त्री स्यात्प्रधिः पुमान्' इत्यमरः । सर्वजनीनः सर्वजनेषु सिद्धः[^२], सर्वजनेषु साधुरिति वार्थः । प्रोत्साहयन् गुरुं प्रत्याह ॥ तदपीति ॥ तदपि तथापि, भवदीयाः युष्मत्पक्षवर्तिनः,
 

a. तैत्तिरीयारण्यके अष्टमः प्रपाठकः ब्रह्मानन्दवल्ली नाम । 'ब्रह्मविदाप्नोति परम्' इति सूत्रेणारम्भात् ॥ शतगुणानन्दवर्णनं 'सैषानन्दस्य मीमांसा भवति' इत्यारभ्य ब्रह्मानन्दपर्यन्तं कृतमिति वेदितव्यम् ॥
 
[^१] 'चकारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः' 'चक्रनेमिक्रमेण' -- इत्यादिमहाकविवचनमपि ॥
 
[^२] 'तस्मै हितम्' (पा. सू. ५.१.५) इत्यधिकारपठितेन 'आत्मन्विश्वजनभोगोत्तरपदात् खः' (पा. सू. ५.१.९) इति सूत्रस्थवार्तिकेन 'सर्वजनात् ठञ् खश्च' -- इति उपसंख्यानेन सर्वजनीनः, सार्वजनिकः इति रूपद्वयं सिद्ध्यति । 'आयनेयी -- ' (पा. सू. ७.१.२) इत्यादिना खस्य ईनादेशः ॥