2023-07-24 05:09:41 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  द्वितीवाभ्यासः
  
  
  
   
  
  
  
  १०५
  
  
  
   
  
  
  
  भगवतीं श्रुतिमपि न विस्रम्भामहे । आजानतो हि राजानः कदाचि-
  
  
  
  दाक्रामन्ति परान्, आक्रम्यन्ते च तैरिति '[^१]चक्रनेमिक्रमस्सर्वजनीन
  
  
  
   एव । तदपि भवदीया जयन्त्येव न जीयन्त इत्यैकान्त्य मनुसन्दधतो
  
  
  
   वयमियदपत्रपामहे व्यथामहे च । भवतः पुनरीषत्करोऽस्मदनुग्रहः
  
  
  
  
  
  
  
  सङ्कल्प मात्रसाधनस्य । यथा हि भवज्जातीया एव भूमिचरान् दिवमारो-
  
  
  
  
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  कल्पितस्य, आनन्दस्य परं पारं पर्यवसानभूमिम् अपश्यन्तः अजानन्तः,
  
  
  
   वयं देवाः, अस्मत् अस्माकं देवानामानन्दात् भवतः आनन्दं, अनेकशतानि
  
  
  
   गुणा:णाः आवृत्तयो यस्य सः । 'गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इत्यमरः ।
  
  
  
   तथाभूतमानमुपपादयन्तीं वदन्तीं, प्रतिपादयन्तीमिति यावत् । भगवतीं, श्रीमतीं,
  
  
  
   श्रुतिम् ' श्रोत्रियस्य चाकामहतस्य' इति प्राथमिकवाक्यमारभ्य ' स एको बृहस्पते-
  
  
  
  रानन्दः', इत्येतदन्तामानन्दवल्लीमपिa , न विसस्रम्भामहे न विश्वसिमः, आप्तवाचोऽ-
  
  
  
  प्यनुभवपराहताश्चेत् कश्श्रद्दधीतेति भावः । लोकस्थितिमनुरुध्याह ॥ आजानेति ॥
  
  
  
   'जनी प्रादुर्भावे' इति धातो:तोः भावे घञ्प्रत्यये जानमिति रूपं भवति । जानं
  
  
  
   च जनिरेव, जानमारभ्य आजानं, तस्मात् । 'इतराभ्योऽपि दृश्यन्ते' ( 5-3-14५.३.१४)
  
  
  
   इति प्रथमायां तसिः । एवं च उत्पत्तिमारभ्येत्यर्थः । राजानः, कदाचित्परान्
  
  
  
  रिपून् । 'परोऽरिपरमात्मनोः' इत्यमरः । आक्रामन्ति जयन्तीत्यर्थः । कदा चित्तैररि-
  
  
  
  भिराक्रम्यन्ते जीयन्त इति । चक्रस्य नेमे:मेः अन्तभागस्येव, क्रमः रीतिः
  
  
  
  
  
  
  
  स्वभाव इति यावत् । 'चक्रं रथाङ्गं तस्यान्ते नेमिस्त्री स्यात्प्रधिः पुमान्'
  
  
  
   इत्यमरः । सर्वजनीनः सर्वजनेषु सिद्ध: 2धः[^२], सर्वजनेषु साधुरिति वार्थः । प्रोत्साह-
  
  
  
  यन् गुरुं प्रत्याह ॥ तदपीति ॥ तदपि तथापि, भवदीयाः युष्मत्पक्षवर्तिनः,
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  a. तैत्तिरीयारण्यके अष्टमः प्रपाठकः ब्रह्मानन्दवल्ली नाम । 'ब्रह्मविदाप्नोति परम्'
  
  
  
   इति सूत्रेणारम्भात् ॥ शतगुणानन्दवर्णनं 'सैषानन्दस्य मीमांसा भवति' इत्यारभ्य
  
  
  
   ब्रह्मानन्दपर्यन्तं कृतमिति वेदितव्यम् ॥
  
  
  
   
  
  
  
  (
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] 'चकारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः' 'चक्रनेमिक्रमेण' –-- इत्यादिमहा-
  
  
  
  कविवचनमपि ॥
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] 'तस्मै हितम्' (पा. सू. 5-1-5५.१.५) इत्यधिकारपठितेन 'आत्मन् विश्वजन-
  
  
  
  भोगोत्तरपदात् खः' (पा. सू. 5-1-9५.१.९) इति सूत्रस्थवार्तिकेन 'सर्वजनात् ठन्ञ् खश्च' -
  
  
  
  - इति उपसंख्यानेन सर्वजनीन:नः, सार्वजनिकः इति रूपद्वयं सिद्धध्यति । 'आयनेयी - '
  
  
  
  - ' (पा. सू. 7.1 - 2७.१.२) इत्यादिना खस्य ईनादेशः ॥
  
  
  
   
  
  
  
  N— 14