2023-06-05 16:39:56 by ambuda-bot
This page has not been fully proofread.
द्वितीवाभ्यासः
१०५
भगवतीं श्रुतिमपि न विस्रम्भामहे । आजानतो हि राजानः कदाचि-
दाक्रामन्ति परान्, आक्रम्यन्ते च तैरिति 'चक्रनेमिक्रमस्सर्वजनीन
एव । तदपि भवदीया जयन्त्येव न जीयन्त इत्यैकान्त्य मनुसन्दधतो
वयमियदपत्रपामहे व्यथामहे च । भवतः पुनरीषत्करोऽस्मदनुग्रहः
सङ्कल्प मात्रसाधनस्य । यथा हि भवज्जातीया एव भूमिचरान् दिवमारो-
कल्पितस्य, आनन्दस्य परं पारं पर्यवसानभूमिम् अपश्यन्तः अजानन्तः,
वयं देवाः, अस्मत् अस्माकं देवानामानन्दात् भवतः आनन्दं, अनेकशतानि
गुणा: आवृत्तयो यस्य सः । 'गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इत्यमरः ।
तथाभूतमानमुपपादयन्तीं वदन्तीं, प्रतिपादयन्तीमिति यावत् । भगवतीं, श्रीमतीं,
श्रुतिम् ' श्रोत्रियस्य चाकामहतस्य' इति प्राथमिकवाक्यमारभ्य ' स एको बृहस्पते-
रानन्दः', इत्येतदन्तामानन्दवल्लीमपि , न विसम्भामहे न विश्वसिमः, आप्तवाचोऽ-
प्यनुभवपराहताश्चेत् कश्श्रद्दधीतेति भावः । लोकस्थितिमनुरुध्याह ॥ आजानेति ॥
'जनी प्रादुर्भावे' इति धातो: भावे घञ्प्रत्यये जानमिति रूपं भवति । जानं
च जनिरेव, जानमारभ्य आजानं, तस्मात् । 'इतराभ्योऽपि दृश्यन्ते' ( 5-3-14)
इति प्रथमायां तसिः । एवं च उत्पत्तिमारभ्येत्यर्थः । राजानः, कदाचित्परान्
रिपून् । 'परोऽरिपरमात्मनोः' इत्यमरः । आक्रामन्ति जयन्तीत्यर्थः । कदा चित्तैररि-
भिराक्रम्यन्ते जीयन्त इति । चक्रस्य नेमे: अन्तभागस्येव, क्रमः रीतिः
स्वभाव इति यावत् । 'चक्रं रथाङ्गं तस्यान्ते नेमिस्त्री स्यात्प्रधिः पुमान्'
इत्यमरः । सर्वजनीनः सर्वजनेषु सिद्ध: 2, सर्वजनेषु साधुरिति वार्थः । प्रोत्साह-
यन् गुरुं प्रत्याह ॥ तदपीति ॥ तदपि तथापि, भवदीयाः युष्मत्पक्षवर्तिनः,
a. तैत्तिरीयारण्यके अष्टमः प्रपाठकः ब्रह्मानन्दवल्ली नाम । 'ब्रह्मविदाप्नोति परम्'
इति सूत्रेणारम्भात् ॥ शतगुणानन्दवर्णनं सैषानन्दस्य मीमांसा भवति' इत्यारभ्य
ब्रह्मानन्दपर्यन्तं कृतमिति वेदितव्यम् ॥
(
1. 'चकारपक्तिरिव गच्छति भाग्यपङ्क्तिः' 'चक्रनेमिक्रमेण' – इत्यादिमहा-
कविवचनमपि ॥
2. 'तस्मै हितम्' (पा. सू. 5-1-5) इत्यधिकारपठितेन 'आत्मन् विश्वजन-
भोगोत्तरपदात् खः' (पा. सू. 5-1-9) इति सूत्रस्थवार्तिकेन 'सर्वजनात् ठन् खश्च -
इति उपसंख्यानेन सर्वजनीन:, सार्वजनिकः इति रूपद्वयं सिद्धयति । 'आयनेयी - '
(पा. सू. 7.1 - 2) इत्यादिना खस्य ईनादेशः ॥
N— 14