This page has been fully proofread twice.

तद्दुर्मोचतमोविमोहितमतिष्वस्मास्वकस्मादिदं
सक्तं यत्पशुषु द्विपात्स्वपि ततो धन्या वयं न्यायतः ॥
 
किं बहुना । अद्य भवत्सम्भावनासम्पादितस्यानन्दस्य परं पारमपश्यन्तो वयमस्मदानन्दादनेकशतगुणं भवदानन्दमुपपादयन्तीं
 
[commentary]
 
लक्षणो वेत्यर्थः । तस्य यः गर्भः अन्तः प्रदेशः, तस्मिन् स्थिते, वेदैवेद्य इति भावः । धातुमये देहे आन्तरतमो धातुः मज्जेत्युच्यते, तामभिव्याप्यामज्जम् । अथवा आ समन्तात् मज्जं शुद्धमित्यर्थः । [‌^१]'टु मस्जो शुद्धौ' इति धातुः । अथवा [‌^२]'श्वन्नुक्षन्--’ (पा. सू. ५.३.२३) इति निपातनात्साधुः । मज्जा सारः, आ समन्तान्मज्जा यस्य तदिति विग्रहः । 'सारो मज्जा नरि त्वक्स्त्री' इत्यमरः ।
सूक्ष्मविषयेषु सर्वत्र प्रवर्तमानमित्यर्थः । 'लज्जावद्राजवन्मज्जा मांससारास्थिसारयोः' इति भागुरिः । [‌^३]'मज्जोक्तो मज्जया सह' इति द्विरूपकोशः । अस्तं विलापलक्षणं लयं, इतः गतः, प्रपञ्च एव मलिनिमा मालिन्यं यस्य तत्तथाभूते । प्रपञ्चलयाधिष्ठान इति फलितार्थः । वस्तुनि स्वात्मनि ब्रह्मणि, आमज्जति लीनं भवति, तदात्मना एकीभवतीति फलितार्थः । तदिदं भवच्चितं, कर्तृ, यद्यस्माद्दुःखेन
मोचयितुं शक्यं दुर्मोचम् । 'ईषद्दुस्सुषु --' (पा. सू. ३.३.१२६) इत्यादिना खल्प्रत्ययः । यत्तमः तमोगुणः तेन विमोहिताः विमूढाः कृताः, मतयः बुद्धयो येषां ते तथाभूतेषु । द्वौ पादौ येषां ते द्विपादः, तेषु पशुषु पशुकल्पेष्विति भाव:वः । अस्मास्वपि, अकस्मात् अज्ञातहेतोः निर्निमित्तमिति भावः । सक्तं
सङ्क्रान्तमासीत्, ततस्तस्माद्वयं, न्यायतः युक्तिवशेन, धन्याः पुण्यवन्तः । 'सुकृती पुण्यवान् धन्यः' इत्यमरः । महत्सुकृतमन्तरा को वा महदनुग्रहभाजनमिति भावः । प्रकारान्तरेण बृहस्पतिं स्तौति ॥ अद्येति ॥ अद्येदानीं, भवत्कृतया सम्भावनया सम्माननया अनुग्रहेणेति यावत् । संपादितस्य
 
[‌^१] अयं 'टु मस्जो शुद्धौ' इति धातुः "अथ परस्मैपदिनः षोडश" -- इत्यारभ्य पठितेषु तृतीयः तौदादिकः ॥
 
[‌^२] 'श्वन्नुक्षन् पूषन् प्लीहन्क्लेदन् स्नेहन्मूर्धन्, मज्जन्नर्यमन्, विश्वप्सन्, परिज्मन्, मातरिश्वन्, मघवन्' (६-५५) इत्युणादिसूत्रेण कनिन् प्रत्ययान्ततया निपातितेषु त्रयोदशसु "मज्जन्" -- अन्यतमः इत्यर्थः ॥
 
[‌^३] "मज्जा = आन्तरतमो धातुः मज्जं = शुद्धम्, मज्जा = सारः इत्यर्थत्रयमभिप्रेत्य "आमज्जमामज्जति" -- इति भागस्य त्रयोऽर्थाः प्रदर्शिताः ॥