This page has been fully proofread once and needs a second look.

१०४
 
नीलकण्ठविजये सव्याख्याने
तद्दुर्मोचतमोविमोहितमतिष्वस्मास्वकस्मादिदं
 

सक्तं यत्पशुषु द्विपात्स्वपि ततो धन्या वयं न्यायतः ॥
 

 
किं बहुना । अद्य भवत्सम्भावनासम्पादितस्यानन्दस्य परं पारम-
पश्यन्तो वयमस्मदानन्दादनेकशतगुणं
भवदानन्दमुपपादयन्तीं
 

 
[commentary]
 
लक्षणो वेत्यर्थः । तस्य यः गर्भ:भः अन्त:तः प्रदेशः, तस्मिन् स्थिते, वेदैवेद्य इति
भाव:वः । धातुमये देहे आन्तरतमो धातुः मज्जेत्युच्यते, तामभिव्याप्यामज्जम् ।
अथवा आ समन्तात् मज्जं शुद्धमित्यर्थः । "[‌^१]'टु मस्जो शुद्धौ' इति धातुः ।
अथवा 2' [‌^२]'श्वन्नुक्षन्-)-’ (पा. सू. 5-3-23५.३.२३) इति निपातनात्साधुः । मज्जा सारः,
आ समन्तान्मज्जा यस्य तदिति विग्रहः । 'सारो मज्जा नरि त्वक्स्त्री' इत्यमरः ।

सूक्ष्मविषयेषु सर्वत्र प्रवर्तमान मित्यर्थः । 'लज्जावद्राजवन्मज्जा मांससारास्थिसारयोः '
' इति भागुरिः । 3' [‌^३]'मज्जोक्तो मज्जया सह' इति द्विरूपकोशः । अस्तं विलापलक्षणं
लयं, इतः गतः, प्रपञ्च एव मलिनिमा मालिन्यं यस्य तत्तथाभूते । प्रपञ्चलया-
घि
धिष्ठान इति फलितार्थ:थः । वस्तुनि स्वात्मनि ब्रह्मणि, आमज्जति लीनं भवति,
तदात्मना एकीभवतीति फलितार्थः । तदिदं भवच्चितं, कर्तृ, यद्यस्माद् दुःखेन

मोचयितुं शक्यं दुर्मोचम् । 'ईषद्दुस्सुषु --' (पा. सू. 3-3-126३.३.१२६) इत्यादिना
ल्प्रत्ययः । यत्तमः तमोगुण:णः तेन विमोहिताः विमूढाः कृताः, मतयः बुद्धयो
येषां ते तथाभूतेषु । द्वौ पादौ येषां ते द्विपादः, तेषु पशुषु पशुकल्पेष्विति
भाव: । अस्मास्वपि, अकस्मात् अज्ञातहेतोः निर्निमित्तमिति भावः । सक्तं

सङ्क्रान्तमासीत् ततस्तस्माद्वयं, न्यायतः युक्तिवशेन, धन्याः पुण्यवन्तः ।
'सुकृती पुण्यवान् धन्यः' इत्यमरः । महत्सुकृतमन्तरा को वा महदनुग्रह -
भाजनमिति भावः । प्रकारान्तरेण बृहस्पतिं स्तौति ॥ अद्येति ॥
अद्येदानीं, भवत्कृतया सम्भावनया सम्माननया अनुग्रहेणेति यावत् । संपादितस्य
 
.9
 
1.

 
[‌^१]
अयं 'टु मस्जो शुद्धौ' इति धातुः "अथ परस्मैप दिन:नः षोडश" -- इत्यारभ्य
पठितेषु तृतीयः तौदादिकः ॥
 
2. '

 
[‌^२] 'श्
वन्नुक्षन् पूषन् प्लीहन्क्लेदन् स्नेहन्मूर्धन्, मज्जन्नर्मन्, विश्वप्सन्, परिज्मन्,
मातरिश्वन्, मघवन् ' ( 6-55५५) इत्युणा दिसूत्रेण कनिन् प्रत्ययान्ततया निपातितेषु त्रयोदशसु
"मज्जन्" -- अन्यतमः इत्यर्थः ॥
 
-
 
9
 
3.

 
[‌^३]
"मज्जा = आन्तरतमो धातुः मज्जं = शुद्धम्, मज्जा = सारः इत्यर्थत्रयमभिप्रेत्य
"आमज्जमामज्जति" -- इति भागस्य त्रयोऽर्थाः प्रदर्शिताः ॥