This page has not been fully proofread.

१०४
 
नीलकण्ठविजये सव्याख्याने
तदुर्मोचतमोविमोहितमतिष्वस्मास्वकस्मादिदं
 
सक्तं यत्पशुषु द्विपात्स्वपि ततो धन्या वयं न्यायतः ॥
 
किं बहुना । अद्य भवत्सम्भावनासम्पादितस्यानन्दस्य परं पारम-
पश्यन्तो वयमस्मदानन्दादनेकशतगुणं
भवदानन्दमुपपादयन्तीं
 
लक्षणो वेत्यर्थः । तस्य यः गर्भ: अन्त: प्रदेशः, तस्मिन् स्थिते, वेदैवेद्य इति
भाव: । धातुमये देहे आन्तरतमो धातुः मज्जेत्युच्यते, तामभिव्याप्यामज्जम् ।
अथवा आ समन्तात् मज्जं शुद्धमित्यर्थः । "टु मस्जो शुद्धौ' इति धातुः ।
अथवा 2' श्वन्नक्षन्-) (पा. सू. 5-3-23) इति निपातनात्साधुः । मज्जा सारः,
आ समन्तान्मज्जा यस्य तदिति विग्रहः । 'सारो मज्जा नरि त्वक्स्त्री' इत्यमरः ।
सूक्ष्मविषयेषु सर्वत्र प्रवर्तमान मित्यर्थः । 'लज्जावद्राजवन्मज्जा मांससारास्थिसारयोः '
इति भागुरिः । 3' मज्जोक्तो मज्जया सह' इति द्विरूपकोशः । अस्तं विलापलक्षणं
लयं, इतः गतः, प्रपञ्च एव मलिनिमा मालिन्यं यस्य तत्तथाभूते । प्रपञ्चलया-
घिष्ठान इति फलितार्थ: । वस्तुनि स्वात्मनि ब्रह्मणि, आमज्जति लीनं भवति,
तदात्मना एकीभवतीति फलितार्थः । तदिदं भवच्चितं, कर्तृ, यद्यस्माद् दुःखेन
मोचयितुं शक्यं दुर्मोचम् । 'ईषद्दुस्सुषु – ' (पा. सू. 3-3-126) इत्यादिना
खप्रत्ययः । यत्तमः तमोगुण: तेन विमोहिताः विमूढाः कृताः, मतयः बुद्धयो
येषां ते तथाभूतेषु । द्वौ पादौ येषां ते द्विपादः, तेषु पशुषु पशुकल्पेष्विति
भाव: । अस्मास्वपि, अकस्मात् अज्ञातहेतोः निर्निमित्तमिति भावः । सक्तं
सङ्क्रान्तमासीत् ततस्तस्माद्वयं, न्यायतः युक्तिवशेन, धन्याः पुण्यवन्तः ।
'सुकृती पुण्यवान् धन्यः' इत्यमरः । महत्सुकृतमन्तरा को वा महदनुग्रह -
भाजनमिति भावः । प्रकारान्तरेण बृहस्पतिं स्तौति ॥ अद्येति ॥
अद्येदानीं, भवत्कृतया सम्भावनया सम्माननया अनुग्रहेणेति यावत् । संपादितस्य
 
.9
 
1. अयं 'टु मस्जो शुद्धौ' इति धातुः "अथ परस्मैप दिन: षोडश" - इत्यारभ्य
पठितेषु तृतीयः तौदादिकः ॥
 
2. 'वन्नुक्षन पूषन् प्लीहन्क्लेदन् स्नेहन्मूर्धन्, मज्जन्नर्थमन्, विश्वप्सन, परिज्मन्,
मातरिश्वन्, मघवन् ' ( 6-55) इत्युणा दिसूत्रेण कनिन् प्रत्ययान्ततया निपातितेषु त्रयोदशसु
"मज्जन्" – अन्यतमः इत्यर्थः ॥
 
-
 
9
 
3. "मज्जा = आन्तरतमो धातुः मज्जं= शुद्धम् मज्जा सारः इत्यर्थत्रयमभिप्रेत्य
"आमज्जमामज्जति" — इति भागस्य त्रयोऽर्थाः प्रदर्शिताः ॥