2023-06-05 16:38:49 by ambuda-bot
This page has not been fully proofread.
xi
Such a glorious synthesis is further obvious behind the
whole plot, which seeks to vindicate the claims of the Blue-
necked swallower of the Halahala, poison for the highest Saviour-
ship of all the worlds of mortals and immortals. And Sahrdayas
cannot fail to realise the admirable synthetic appeal through the
finishing touches in which the Vaikunthavarpana at the end of
second Aśvāsa culminates, and through the thrilling hymn in the
fourth Aśvāsa addressed by Vișņu to Nārāyaṇī in worshipful love
and the still more thrilling reply vouchsafed by Siva; and all
this must be quite evident from a perusal of the following
extracts:
पश्य ज्ञानक्रियेच्छामणिमयमुकुराबद्धमध्यात्मविद्या-
भास्वद्रलप्रदीपप्रकरपरिहृतध्वान्तमन्त समन्तात् ।
गाढाविद्याकवाटं प्रबलशमदमद्वारपालाभिगुप्तं
भक्तिद्वारं मुरारेरिदमिह शयनागारमोक्काररूपम् ॥ ३४ ॥
क्षन्तारं सकलागसां जडधियां यन्तारमन्तस्तमो-
हन्तारं जगतामनुत्तरपराहन्ताङ्कितोरस्स्थलम् ।
उद्यत्कौस्तुभशोभ मुत्पलवनीसच्छायमच्छायत-
स्निग्धापाङ्गतरङ्गमैक्षिषि परं ब्रह्माच्युतं शाश्वतम् ॥ ३५ ॥
जानाम्यहमुमाकान्तं जानासि त्वं च मद्विरा ।
जानन्ति किमिमे मूढास्तत्सम्यगनुशिष्यताम् ॥ ४७ ॥
(नीलकण्ठविजय: - आ. २)
यज्जन्मस्थेमभङ्गवतमिह जगतां यच्च सर्वान्तरत्वं
यत्स्वातन्त्र्यं च मोक्षे श्रुतिषु निगदितं विश्वसाम्राज्यचिह्नम् ।
तद्यस्याः साहचर्यात्परिणमति परब्रह्मणि श्रीमहेशे
तामाद्यामात्मविद्यामहमिति कलयन् सर्वतो निर्वृतोऽस्मि ॥ १४ ॥
यल्लक्ष्मीदयितोऽस्मि यद्दनुभुवां जेतास्मि यत्कर्मिणां
कर्मस्वभ्युदयप्रदोऽस्मि यदपि ध्येयोऽस्मि वा योगिनाम् ।
तत्सर्वं त्रिपुरे महेश्वरि महामाये जगद्रूपिणि
त्वत्सौभाग्यमहाविभूतिकणिकालेशस्य लेशायते ॥ १५ ॥