This page has been fully proofread twice.

कलुषाणि, पर्युपास्थिषतa मङ्गळानि, परथा[‌^१] कथं भवदीयानां पात्रीभवेम शासनाक्षराणाम् ।
 
चेतो यद्भवतश्चिरन्तनवचस्सन्दर्भगर्भस्थिते
वस्तुन्यस्तमितप्रपञ्चमलिनिम्न्यामज्जमामज्जति ।
 
[commentary]
 
यन्महासंविधानं देवासुरसङ्घटनपुञ्जीभवनादिलक्षणं, तेन लभ्यया प्राप्तव्यया, भाग्यस्य अदृष्टस्य वशात्, अधुनैव स्वतः लब्धया, सुधयेव स्थितया । 'पीयूषममृतं सुधा' इत्यमरः । वाचस्पतेः गुरोः वाचा, आप्यायितः तर्पितः सुरपतिरिंरिदं वचः आचचक्षे जगाद । तत्प्रकारमेवाह ॥ अद्येति ॥ अद्य एतत्तपोयोग्यं वनं तपोवनं, पावनं पवित्रं, [‌^२]अजनि आसीत् । अद्य नोऽस्माकं, तपांसि चान्द्रायणादीनि, परिपेचिरे पक्कावानि बभूवुः, फलदानोन्मुखानि बभूवुरिति यावत् । अद्य नः, कलुषाणि दुरितानि । 'कलुषं वृजिनैनोऽघमंहोदुरितदुष्कृतम्' इत्यमरः । प्रशेमु: नेशुरित्यर्थः । मङ्गळानि शुभानि, पर्युपस्थितानि सन्निहितानि, आसामासुरिति शेषः । परथा अन्यथा, एवं नचेदिति यावत्, भवदीयानां युष्मदीयानां, शासनं हितोपदेशः , तद्रूपाणां अक्षराणां वचसां, कथं पात्रीभवेम भाजनभूतास्स्याम, अनुकूलकालमन्तरा आगत्य हितं नोपदिशन्त्येव गुरव इति भावः । बृहस्पतिं ब्रह्मनिष्ठत्वेन स्तौति ॥ चेत इति ॥ यद्भवतश्चेतः चित्तं, कर्तृ, चिरन्तनानि पुरातनानि, यानि वचांसि श्रुतयः तेषां यः सन्दर्भः । 'उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये' । इत्यादिशास्त्रसिद्धतात्पर्यलिङ्गषट्कलक्षणः । यथोचितपदविन्यासलक्षणो वा आनुपूर्वीं
 
a. 'पर्युपास्थिषत' -- इति मूलपाठः । 'पर्युपस्थितानि' -- इति व्याख्यातृपाठः । परि, उप, रूपद्वय्युपसृष्टात् स्थाधातोः लुङि प्रथमपुरुषबहुवचने रूपम् ॥ 'स्थाध्वोरिच्च' (पा. सू. १.२.१७) इति इकारः ॥ 'उपाद्देवपूजा, संगतिकरण, मित्रकरण, पथिष्विति वाच्यम्' -- इति (वा. १.३.२५) वार्तिकेन अमन्त्रकरणार्थमारब्धेन 'संगतिकरणमुपश्लेषः’ इति 'गङ्गा यमुनामुपतिष्ठते' -- इत्यत्रेव आत्मनेपदं सन्निहितार्थविवक्षायामिति च बोध्यम् ॥
 
[‌^१] 'प्रकारवचने थाल्' (पा. सू. ५.३.२३) इत्यनेन थालि अन्यथा, इतरथा, सर्वथा इत्यादिवत् "परथा" -- इति रूपम् ॥
 
[‌^२] जनेर्लुङि -- 'दीपजनबुध -- ' (पा. सू. ३.१.६१) इत्यादिना वैकल्पिकश्चिण् ॥ 'चिणो लुक्' -- (पा. सू. ३.४.९३) इति तस्य लुक् ।