2023-07-23 12:09:10 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  द्वितीयाश्वासः
  
  
  
   
  
  
  
  १०३
  
  
  
   
  
  
  
  कलुषाणि, पर्युपास्थितषतa मङ्गळानि, परथा[^१] कथं भवदीयानां
  
  
  
   पात्रीभवेम शासनाक्षराणाम् ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  चेतो यद्भवतश्चिरन्तनवचस्सन्दर्भगर्भस्थिते
  
  
  
  
  
  
  
  वस्तुन्यस्तमितप्रपञ्चमलिनिम्न्यामज्जमामज्जति ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  यन्महासंविधानं देवासुरसङ्घटनपुञ्जी भवनादिलक्षणं, तेन लभ्यया प्राप्तव्यया,
  
  
  
   भाग्यस्य अदृष्टस्य वशात्, अधुनैव स्वतः लब्धया, सुधयेव स्थितया । 'पीयूषममृतं
  
  
  
   सुधा' इत्यमरः । वाचस्पते:तेः गुरोः वाचा, आप्यायित:तः तर्पितः सुरपतिरिंदं वचः
  
  
  
   आचचक्षे जगाद । तत्प्रकारमेवाह ॥ अद्येति ॥ अद्य एतत्तपोयोग्यं वनं तपोवनं,
  
  
  
   पावनं पवित्र, रं, [^२]अजनि आसीत् । अद्य नोऽस्माकं, तपांसि चान्द्रायणादीनि, परिपे-
  
  
  
  चिरे पक्कानि बभूवुः, फलदानोन्मुखानि बभूवुरिति यावत् । अद्य नः, कलुषाणि
  
  
  
   दुरितानि । 'कलुषं वृजिनैनोऽघममंहोदुरितदुष्कृतम्' इत्यमरः । प्रशेमु: नेशुरि-
  
  
  
  त्यर्थः । मङ्गळानि शुभानि, पर्युपस्थितानि सन्निहितानि, आसामासुरिति
  
  
  
   शेष:षः । परथा अन्यथा, एवं नचेदिति यावत्, भवदीयानां युष्मदीयानां,
  
  
  
   शासनं हितोपदेशः , तद्रूपाणां अक्षराणां वचसां, कथं पालीत्रीभवेम भाजन-
  
  
  
  भूतास्स्याम, अनुकूलकालमन्तरा आगत्य हितं नोपदिशन्त्येव गुरव इति भावः ।
  
  
  
   बृहस्पतिं ब्रह्मनिष्ठत्वेन स्तौति ॥ चेत इति ॥ यद्भवतश्चेतः चित्तं, कर्तृ,
  
  
  
   चिरन्तनानि पुरातनानि, यानि वचांसि श्रुतयः तेषां य:यः सन्दर्भ:भः । 'उपक्रमोप-
  
  
  
  संहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये' ।
  
  
  
   इत्यादिशास्त्रसिद्धतात्पर्यलिङ्गषट्कलक्षणः । यथोचितपदविन्यासलक्षणो वा आनुपूर्वी
  
  
  
   
  
  
  
  वीं
  
  
  
   
  
  
  
  a. 'पर्युपास्थिषत' –-- इति मूलपाठ:ठः । 'पर्युपस्थितानि' -- इति व्याख्यातृपाठः ।
  
  
  
   परि, उप, रूपद्वषुय्युपसृष्टात् स्थाधातोः लुङि प्रथमपुरुषबहुवचने रूपम् ॥ 'स्थाध्वोरिच्च'
  
  
  
   (पा. सू. 1-2-17१.२.१७) इति इकार:रः ॥ 'उपाद्देवपूजा, संगतिकरण, मिलत्रकरण, पथिष्विति
  
  
  
   वाच्यम्'— -- इति (वा.1-3-25 १.३.२५) वार्तिकेन अमन्त्रकरणार्थमारब्धेन 'संगतिकरणमुपश्लेष:-
  
  
  
  इति "षः’ इति 'गङ्गा यमुनामुपतिष्ठते' –-- इत्यत्रेव आत्मनेपदं सन्निहितार्थविवक्षायामिति च बोध्यम् ॥
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  1. "
  
  
  
   
  
  
  
  [^१] 'प्रकारवचने थाल्' (पा. सू. 5-3-23५.३.२३) इत्यनेन थालि अन्यथा, इतरथा,
  
  
  
   सर्वथा इत्यादिवत् "परथा" –-- इति रूपम् ॥
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] जनेर्लुङ –ङि -- 'दीपजनबुध -- ' (पा. सू. 3-1.61३.१.६१) इत्यादिना वैकल्पिकश्चिण् ॥
  
  
  
   'चिणो लुक्' –-- (पा. सू. 3-1-61३.४.९३) इति तस्य लुक् ।