This page has not been fully proofread.

द्वितीयाश्वासः
 
१०३
 
कलुषाणि, पर्युपास्थित मङ्गळानि, परथा कथं भवदीयानां
पात्रीभवेम शासनाक्षराणाम् ।
 
चेतो यद्भवतश्चिरन्तनवचस्सन्दर्भगर्भस्थिते
वस्तुन्यस्तमितप्रपञ्चमलिनिम्न्यामज्जमामज्जति ।
 
यन्महासंविधानं देवासुरसङ्घटनपुञ्जी भवनादिलक्षणं, तेन लभ्यया प्राप्तव्यया,
भाग्यस्य अदृष्टस्य वशात्, अधुनैव स्वतः लब्धया, सुधयेव स्थितया । 'पीयूषममृतं
सुधा' इत्यमरः । वाचस्पते: गुरोः वाचा, आप्यायित: तर्पितः सुरपतिरिंदं वचः
आचचक्षे जगाद । तत्प्रकारमेवाह ॥ अद्येति ॥ अद्य एतत्तपोयोग्यं वनं तपोवनं,
पावनं पवित्र, अजनि आसीत् । अद्य नोऽस्माकं, तपांसि चान्द्रायणादीनि, परिपे-
चिरे पक्कानि बभूवुः, फलदानोन्मुखानि बभूवुरिति यावत् । अद्य नः, कलुषाणि
दुरितानि । 'कलुषं वृजिनैनोऽघमहोदुरितदुष्कृतम्' इत्यमरः । प्रशेमु: नेशुरि-
त्यर्थः । मङ्गळानि शुभानि, पर्युपस्थितानि सन्निहितानि, आसामासुरिति
शेष: । परथा अन्यथा, एवं नचेदिति यावत्, भवदीयानां युष्मदीयानां,
शासनं हितोपदेशः , तद्रूपाणां अक्षराणां वचसां, कथं पालीभवेम भाजन-
भूतास्स्याम, अनुकूलकालमन्तरा आगत्य हितं नोपदिशन्त्येव गुरव इति भावः ।
बृहस्पतिं ब्रह्मनिष्ठत्वेन स्तौति ॥ चेत इति ॥ यद्भवतश्चेतः चित्तं, कर्तृ,
चिरन्तनानि पुरातनानि, यानि वचांसि श्रुतयः तेषां य: सन्दर्भ: । 'उपक्रमोप-
संहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये' ।
इत्यादिशास्त्रसिद्धतात्पर्यलिङ्गषट्कलक्षणः । यथोचितपदविन्यासलक्षणो वा आनुपूर्वी
 
a. 'पर्युपास्थिषत' – इति मूलपाठ: । 'पर्युपस्थितानि' - इति व्याख्यातृपाठः ।
परि, उप, रूपद्वषुपसृष्टात् स्थाधातोः लुङि प्रथमपुरुषबहुवचने रूपम् ॥ 'स्थाध्वोरिच'
(पा. सू. 1-2-17) इति इकार: ॥ 'उपादेवपूजा, संगतिकरण, मिलकरण, पथिष्विति
वाच्यम्'—इति (वा.1-3-25) वार्तिकेन अमन्त्रकरणार्थमारब्धेन 'संगतिकरणमुपश्लेष:-
इति "गङ्गा यमुनामुपतिष्ठते' – इत्यत्रेव आत्मनेपदं सन्निहितार्थविवक्षायामिति च बोध्यम् ॥
 
"
 
-
 
1. "प्रकारवचने थाल्' (पा. सू. 5-3-23) इत्यनेन थालि अन्यथा, इतरथा,
सर्वथा इत्यादिवत् "परथा" – इति रूपम् ॥
 
-
 
2. जनेर्लुङ – 'दीपजनबुध - ' (पा. सू. 3-1.61) इत्यादिना वैकल्पिकश्चिण् ॥
'चिणो लुक्' – (पा. सू. 3-1-61) इति तस्य लुक् ।