2023-08-26 09:52:24 by Bharadwajraki
This page has been fully proofread twice.
किं बहुना
कालोऽत्यगादशुभहेतुरुपस्थितं वः
कल्याणमद्य न चिरादिति भासते नः ।
उत्तिष्ठतोच्चलत याम तु धाम धातुः
उष्ट्रासिकाभिरधुना किमनर्थिकाभिः ॥ ३ ॥
इति प्रवृत्तया भाविमहासंविधानलभ्ययापि भाग्यवशादधुनैव स्वतो
लब्धया सुधयेव वाचा वाचस्पतेराप्यायितस्सुरपतिरिदमाचचक्षे । 'अद्यैतत्पावनमजनि तपोवनम्, अद्य नस्तपांसि परिपेचिरे, प्रशेमुरद्य नः
[commentary]
वास्तु च' इत्यमरः । स्थित इति शेषः । स्वैरेण अनिरोधेन स्वच्छन्देन वा चरितुं शीलं यस्य सः स्वैरचारी, उत्सृष्टश्रुतिमार्गः कामिजन इति यावत् । 'मन्दस्वच्छन्दयोस्स्वैर' इत्यमरः । विशिष्यते विशिष्टः क्रियते । तथोक्तं सूतसंहितायां शिवमाहात्म्यखण्डे चिदम्बरमाहात्म्ये -- 'अन्यत्र पञ्चतपसो
मुनेर्वाताशनादपि । श्रीमद्दक्षिणकैलासे स्वैरचारी विशिष्यते' इत्यादि । वृद्धानां मुखादपि, भवद्भिरपि श्रुतमेव, विदितशिवक्षेत्रमाहात्म्यानां भवतामेतद्विषयेऽस्माभिः किं वक्तव्यमिति भावः । अयमावासभूतः शैलराजश्च, अस्मादृश[^१] इव भवादृशामपि, अमृतस्य । 'अमृतं दिवि खे मोक्षे यज्ञशेषे सुराशने' इति विश्वः । प्राप्तौ हेतुः कारणं अस्मद्विधानां मोक्षकारणं, भवद्विधानां सुधाप्राप्तिकारणमिति भावः ॥ काल इति ॥ अशुभस्यामङ्गळस्य, हेतुः निमित्तं कारणं, कालः पापफलानुभवकालः, अत्यगात् अतिययौ । वः युष्माकं, कल्याणं मङ्गळं, न चिरात्झटिति, उपस्थितं प्राप्तं, स्यादिति शेषः । इत्येवमद्येदानीं नः अस्माकं, भासते चित्ते स्फुरतीत्यर्थः । उत्तिष्ठत उत्थानं कुरुत, चलत गमनं कुरुत, धातुर्ब्रह्मणः धाम स्थानं तु । 'उटजं धाम निवेशः शरणं क्षयः' इत्यमरः । याम लोट् । प्राप्नुवाम, अधुना अनर्थिकाभिः प्रयोजनरहिताभिः उष्ट्रस्येवासिकाभिः शिरांस्युन्नमय्य स्थितिभिः, किं फलं न किमपीत्यर्थः । गुरुवचनात्सन्तुष्टो देवेन्द्रो गुरुं प्रत्यवोचदित्याह ॥ इतीति ॥ इत्येवं, प्रवृत्तया प्रसृतया, भावि भविष्यत्,
[^१] 'अस्मादृशाम्' -- इति मूलपाठः 'अस्मादृशः' इत्येकवचनान्तपाठः व्याख्यापाठः ॥ अमृतपदं सुधामोक्षरूपद्वव्यर्थकं श्लिष्टं च ।

[^१] 'अस्मादृशाम्' -- इति मूलपाठः 'अस्मादृशः' इत्येकवचनान्तपाठः व्याख्यापाठः ॥ अमृतपदं सुधामोक्षरूपद्