2023-08-26 09:47:53 by Bharadwajraki
This page has been fully proofread twice.
इव तस्य दृशां न किञ्चन सुन्दरमन्यदायतनम् । अन्यत्र पञ्चतपसोऽपि मुनेरावसथेषु शाम्भवेषु, स्वैरचारी विशिष्यत इति श्रुतमेव भवद्भिरपि वृद्धमुखात् । अमृतप्राप्तिहेतुश्चायमस्मादृशामिव भवादृशामपि शैलराजः ।
[commentary]
अनेकानि । [^१]'परश्शताद्यास्ते येषां परा सङ्ख्या शतादिकात्' इत्यमरः । महान्ति श्लाघ्यानि, भवान्याः पतिः शिवः, तस्य स्थानानि आयतनानि, सन्ति, परन्तु तथापि, मन्दर इव, तस्य शिवस्य, दृशां अन्यत् मन्दरातिरिक्तं, किंचिदल्पमपि, आयतनं सुन्दरं दर्शनीयं न भवतीति शेषः । अन्यत्र शैवक्षेत्रभिन्नप्रदेशेषु, पञ्चपञ्चयज्ञरूपाणि, तपांसि यस्य सः पञ्चतपाः तस्मात् । अथवा दक्षिणाग्निगार्हपत्याहवनीयसभ्यावसथ्यलक्षणपञ्चाग्निसाध्यं तपः यस्य सः पञ्चतपाः[^२] । यद्वा
दानयज्ञस्वाध्यायैकाग्न्यर्यानशनवव्रतलक्षणानि पञ्चरूपाणि तपांसि यस्य सः पञ्चतपाः ।
स्वाध्याययज्ञादीनां नारायणोपनिषदि (१० प्रश्ने, ७८ अनुवाके) तपस्त्वेन व्यवहारात् । आहोस्वित् 'पचि विस्तारे' इत्यस्मादच्प्रत्ययः । पञ्चं विस्तृतं तपः चान्द्रायणादिलक्षणं यस्य सः पञ्चतपाः । '... तपो लोकान्तरेऽपि च । चान्द्रायणादिधर्मे च न स्त्री शिशिरमाघयोः' इति रभसः । यद्वा तपः व्रतं, 'माघे पुमान् व्रते क्लीबे तप' इति नानार्थरत्नकोशात् । तथाच विस्तृतं तपः शिरोव्रतलक्षणं व्रतं आथर्वणिकानां ब्रह्मविद्याभ्यासपूर्वकाले क्रियमाणं यस्य सः पञ्चतपाः । a'तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्' इति श्रुतेः । अथवा तपन्त्येभिरिति करणार्थे तपधातोरौणादिकाद्बाहुळकादसुन्प्रत्ययः । स्थण्डिलदिक्चतुष्टये प्रतिष्ठिताः चत्वारोऽग्नयः उपरि सूर्यश्चेति पञ्चसङ्ख्यानि तपांसि तापकारणानि यस्य स्थण्डिलोपविष्टस्य मुनेः सः पञ्चतपाः ।
तस्मादपि शाम्भवेषु शम्भुसम्बन्धिषु आवसथेषु स्थानेषु 'स्थानावसथ-
[^१] 'पारस्करप्रभृतीनि च संज्ञायाम्' (पा. सू. ६.१.१५७) इति सूत्रेण, विहितः सुट्, आकृतिगणत्वाश्रयणात् परश्शत-परस्सहस्र, परसयुत-परस्लक्ष-परस्कोटिप्रभृतयः शब्दाः सिद्ध्यन्ति । न तु 'परःशत -- परोलक्ष' -- इत्यादिविसर्गौकारविशिष्टाः साधवः, सुटः सकारस्य टितः 'आद्यन्तौ टकितौ' (पा. सू. १.१.४६) इति परादित्वेन पदान्तस्वाभावात् रुत्वविसर्गाप्राप्तेः ॥
[^२] 'पञ्चतप' शब्दः बहुधा व्याख्यातः । १.पञ्चमहायज्ञपरतया, २.पञ्चाग्निपरतया,
३.दानादिपञ्चकर्मपरतया, ४.विस्तृतचान्द्रायणपरतया, ५.शिरोव्रतपरतया, ६.प्रतिष्ठिताग्निचतुष्टयसूर्यपरतया च षोढा सप्रमाणं व्याख्यातः ॥
a. मुण्डकोपनिषदि ।
[commentary]
अनेकानि । [^१]'परश्शताद्यास्ते येषां परा सङ्ख्या शतादिकात्' इत्यमरः । महान्ति श्लाघ्यानि, भवान्याः पतिः शिवः, तस्य स्थानानि आयतनानि, सन्ति, परन्तु तथापि, मन्दर इव, तस्य शिवस्य, दृशां अन्यत् मन्दरातिरिक्तं, किंचिदल्पमपि, आयतनं सुन्दरं दर्शनीयं न भवतीति शेषः । अन्यत्र शैवक्षेत्रभिन्नप्रदेशेषु, पञ्चपञ्चयज्ञरूपाणि, तपांसि यस्य सः पञ्चतपाः तस्मात् । अथवा दक्षिणाग्निगार्हपत्याहवनीयसभ्यावसथ्यलक्षणपञ्चाग्निसाध्यं तपः यस्य सः पञ्चतपाः[^२] । यद्वा
दानयज्ञस्वाध्यायैकाग्