2023-07-23 11:38:51 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  द्वितीयाश्वासः
  
  
  
   
  
  
  
  १०१
  
  
  
   
  
  
  
  इव तस्य दृशां न किञ्चन सुन्दरमन्यदायतनम् । अन्यत्र पञ्चतपसोऽपि
  
  
  
   मुनेरावसथेषु शाम्भवेषु, स्वैरचारी विशिष्यत इति श्रुतमेव भवद्भिरपि
  
  
  
   वृद्धमुखात् । अमृतप्राप्तिहेतुश्चायमस्मादृशामिव भवादृशामपि शैलराजः ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  अनेकानि । "[^१]'परश्शताद्यास्ते येषां परा सङ्ख्या शतादिकात्' इत्यमरः । महान्ति
  
  
  
   श्वालाघ्यानि, भवान्याः पतिः शिवः, तस्य स्थानानि आयतनानि, सन्ति, परन्तु
  
  
  
   तथापि, मन्दर इव, तस्य शिवस्य, दृशां अन्यत् मन्दरातिरिक्तं, किंचिदल्पमपि,
  
  
  
   आयतनं सुन्दरं दर्शनीयं न भवतीति शेषः । अन्यत्र शैवक्षेत्र भिन्नप्रदेशेषु, पञ्च
  
  
  
  पञ्चयज्ञरूपाणि, तपांसि यस्य सः पञ्चतपाः तस्मात् । अथवा दक्षिणाग्निगार्ह-
  
  
  
  पत्याहवनीयसभ्यावसथ्यलक्षणपञ्चाग्निसाध्यं तपः यस्य सः पञ्चतपा: 2पाः[^२]  । यद्वा
  
  
  
  
  
  
  
  दानयज्ञस्वाध्यायैकाम्याग्न्यनशनवतलक्षणानि पञ्चरूपाणि तपांसि यस्य सः पञ्चतपाः ।
  
  
  
  
  
  
  
  स्वाध्याययज्ञादीनां नारायणोपनिषदि ( 10१० प्रश्ने, 78७८ अनुवाके) तपस्त्वेन
  
  
  
   व्यवहारात् । आहोस्वित् 'पचि विस्तारे' इत्यस्मादच्प्रत्ययः । पञ्चचं विस्तृतं तपः
  
  
  
   चान्द्रायणादिलक्षणं यस्य सः पञ्चतपाः । '... तपो लोकान्तरेऽपि च । चान्द्रायणादि-
  
  
  
  धर्मे च न स्त्री शिशिरमाघयोः' इति रभसः । यद्वा तपः व्रतं, 'माघे
  
  
  
   पुमान् व्रते क्लीबे तप' इति नानार्थरत्नकोशात् । तथाच विस्तृतं तपः
  
  
  
   शिरोव्रतलक्षणं व्रतं आथर्वणिकानां ब्रह्मविद्याभ्यासपूर्वकाले क्रियमाणं यस्य
  
  
  
   सः पञ्चतपा: । " पाः । a'तेषामेवैतां ब्रह्मविद्यां वदेत शिरोवव्रतं विधिवद्यैस्तु चीर्णम्' इति
  
  
  
   श्रुतेः । अथवा तपन्त्येभिरिति करणार्थे तपधातोरौणादिकाद्वाबाहुळकादसुन्प्रत्ययः ।
  
  
  
   स्थण्डिल दिक्चतुष्टये प्रतिष्ठिता:ताः चत्वारोऽमय:ग्नयः उपरि सूर्यश्चेति पञ्चसङ्ख्यानि
  
  
  
   तपांसि तापकारणानि यस्य स्थण्डिलोपविष्टस्य मुनेः सः पञ्चतपाः ।
  
  
  
  
  
  
  
  तस्मादपि शाम्भवेषु शम्भुसम्बन्धिषु आवसथेषु स्थानेषु 'स्थानावसथ-
  
  
  
  a
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
   
  
  
  
  [^१] 'पारस्करप्रभृतीनि च संज्ञायाम्' (पा. सू. 6-1-157६.१.१५७) इति सूत्रेण, विहितः
  
  
  
   सुट्, आकृतिगणत्वाश्रयणात् परश्शत-परस्सहस्र, परसयुत- परस्लक्ष -परस्कोटिप्रभृतयः
  
  
  
   शब्दा:दाः सिद्धध्यन्ति । न तु 'पर: रःशत –-- परोलक्ष' -- इत्यादिविसर्गौकार विशिष्टाः साधवः,
  
  
  
   सुट:टः सकारस्य टित:तः 'आद्यन्तौ टकितौ' (पा. सू. 1-1-46१.१.४६) इति परादित्वेन पदान्त-
  
  
  
  स्वाभावात् रुत्वविसर्गाप्राप्तेः ॥
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] 'पञ्चतप' शब्द:दः बहुधा व्याख्यातः । १.पञ्चमहायज्ञपरतया, '२.पञ्चाग्निपरतया,
  
  
  
  * 
  
  
  
  ३.दानादिपञ्चकर्मपरतया, '४.विस्तृत चान्द्रायणपरतया, '५.शिरोव्रतपरतया, '६.प्रतिष्ठिताग्निचतुष्टय-
  
  
  
  सूर्यपरतया च षोढा सप्रमाणं व्याख्यातः ॥
  
  
  
   
  
  
  
  8
  
  
  
   
  
  
  
  a. मुण्डकोपनिषदि ।