This page has been fully proofread twice.

वाराणसीव भारते वर्षे[‌^१] दयितं गौरीदयितस्य परममिदमेवायतनमिळावृते[‌^२] । आरसातलादा च शान्त्यतीतकलाभुवनात्सन्ति महान्ति स्थानानि सर्वागमविदितानि परश्शतानि भवानीपतेः । परं तु मन्दर
 
[commentary]
 
भवद्भिरासादितं प्राप्तम् । अहो इत्याश्चर्ये । भारते भरतस्य राज्ञस्सम्बन्धिनि । 'तस्येदम्' (पा. सू. ४.३.१२०) इत्यण्प्रत्ययः । वर्षे धात्रीनवमांशे । 'स्याद्वृष्टौ लोकधात्र्यंशे वत्सरे वर्षमस्त्रियाम्' इत्यमरः । किं च । 'महर्षिव्यासरचिते जम्बूद्वीपेऽपि भारतम्' इति रभसः । 'पुन्नपुंसकयोर्वर्षं जम्बूद्वीपाब्दवृष्टिषु' इति रुद्रः । 'वर्षं स्थानं बिंविदुः प्राज्ञा इमं लोकं च भारतम् ।’ इति भारविः । 'उत्तरं
यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥' इति । वाराणसीव काशीव, इळावृते वर्षे, इदं मन्दरसंज्ञकं आयतनमेव, गौरीदयितस्य उमावल्लभस्य, परममत्यन्तं, दयितं प्रेमास्पदम् आरसातलात् पातालमारभ्येत्यर्थः । 'अधोभुवनपातालबलिसद्मरसातलम्’ इत्यमरः । आ च शान्त्यतीतकळाभवनात्, शान्तिं शान्तिनामकलां अतीता अतिक्रान्ता शान्त्यतीता ।
तथाभूतायाः कलायाः अतीतशान्तिसंज्ञिकायाः भवनं स्थानं आकाशः, तमभिव्याप्येत्यर्थः । आकाशस्य अतीतशान्तिकलाभवनत्वं श्रीमदाचार्यैरुक्तम् -- 'भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा विधानले मरुति शान्तिरतीतशान्तिः । व्योम्नीति याः किल कलाः कलयन्ति विश्वं तासां हि दूरतरमम्ब पदं त्वदीयम् ॥" इति । पाताळमारभ्य अन्तरिक्षलोकपर्यन्तं शिवस्थानानि सन्तीत्यत्र प्रमाणं तु -- 'आकाशे तारकालिङ्गं पाताळे हाटेकश्वरम् । मर्त्यलोके महाकालम्’ इति पूर्वमेघव्याख्याने
महोपाध्यायोदाहृतवचनम् । यद्वा केन अग्निना लं खण्डनं प्रळयकालिकाग्निना ताप इति यावत् । इतः प्राप्तः कलः सङ्कर्षणाग्निप्रयोज्यतापो यैस्ते तथा । इतरकलानतिक्रान्ताः अतीतकलाः दहरशाण्डिल्योपासकाः शान्त्येति तृतीया तत्पुरुषः । तेषां [‌^३]भवनं सत्यलोकः तमभिव्याप्येत्यर्थः । 'को ब्रह्मात्मानिलार्काग्निशमनस्पर्शकेकिषु' इत्येकाक्षरे । 'लः खण्डने त्रिष्वादाने स्त्री' इति च नानार्थरत्नमाला । सर्वागमेषु सर्वशास्त्रेषु । विदितानि व्याख्यातानि, परश्शतानि
 
[‌^१] वर्षशब्दः, न कालपरः, अपि त्वत्र देशपरः ॥
 
[‌^२] इलावृते वर्षे मन्दरं -- भारतवर्षे वाराणसी शिवाधिष्ठानम् इति भावः ॥
 
[‌^३] भुवनात् शिवाधिष्ठानम् -- इति मूलपाठः "भवनात्" -- इति व्याख्यापाठः