2023-06-05 16:39:55 by ambuda-bot
This page has not been fully proofread.
१००
नीलकण्ठविजये सव्याख्याने
वाराणसीव भारते वर्षे दयितं गौरीदयितस्य परममिदमेवायतन -
मिळावृते । आरसातलादा च शान्त्यतीतकला भुवनात्सन्ति महान्ति
स्थानानि सर्वागमविदितानि परश्शतानि भवानीपतेः । परं तु मन्दर
ु
भवद्भिरासादित प्राप्तम् । अहो इत्याश्चर्ये । भारते भरतस्य राज्ञस्सम्बन्धिनि ।
'तस्येदम्' (पा. सू. 4-3-120) इत्यणप्रत्ययः । वर्षे धात्रीनवमांशे । 'स्यादृष्टौ
लोकधात्र्यंशे वत्सरे वर्षमस्त्रियाम्' इत्यमरः । किं च । 'महर्षिव्यासरचिते जम्बू-
द्वीपेऽपि भारतम्' इति रभसः । 'पुन्नपुंसकयो वर्षं जम्बूद्वीपाब्दवृष्टिषु' इति रुद्रः ।
'वर्ष स्थानं बिंदु: प्राज्ञा इमं लोकं च भारतम् ।" इति भारविः । 'उत्तरं
यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥'
इति । वाराणसीव काशीव, इळावृते वर्षे, इदं मन्दरसंज्ञकं आयतनमेव, गौरी-
दयितस्य उमावल्लभस्य, परममत्यन्तं, दयितं प्रेमास्पदम् आरसातलात् पाताल-
मारभ्येत्यर्थः । 'अधोभुवनपातालचलिसद्मरसातलम् इत्यमरः । आ च शान्त्य-
तीतकळाभवनात्, शान्ति शान्तिनामकलां अतीता अतिक्रान्ता शान्त्यतीता ।
तथाभूतायाः कलायाः अतीतशान्तिसंज्ञिकायाः भवनं स्थानं आकाशः, तमभि-
व्याप्येत्यर्थः । आकाशस्य अतीतशान्ति कलाभवनत्वं श्रीमदाचार्यैरुक्तम् – 'भूमौ
निवृत्तिरुदिता पयसि प्रतिष्ठा विधानले मरुति शान्तिरतीतशान्तिः । व्योन्नीति याः
किल कला: कलयन्ति विश्वं तासां हि दूरतरमन्च पदं त्वदीयम् ॥" इति ।
पाताळमारभ्य अन्तरिक्षलोकपर्यन्तं शिवस्थानानि सन्तीत्यत्र प्रमाणं तु - 'आकाशे
तारकालिङ्गं पाताळे हाटेकश्वरम् । मर्त्यलोके महाकालम् इति पूर्वमेघव्याख्याने
महोपाध्यायोदाहृतवचनम् । यद्वा केन अभिना लं खण्डनं प्रळयकालिकाभिना
ताप इति यावत् । इतः प्राप्तः कल: सङ्कर्षणामिप्रयोज्यतापो यैस्ते तथा ।
इतरकलानतिक्रान्ताः अतीतकलाः दहरशाण्डिल्योपासकाः शान्त्येति तृतीया
तत्पुरुषः । तेषां 'भवनं सत्यलोकः तमभिव्याप्येत्यर्थः । 'को ब्रह्मात्मानिलार्काभि-
शमनस्पर्शकेकिषु' इत्येकाक्षरे । 'ल: खण्डने त्रिष्वादाने स्त्री' इति च नानार्थ-
रत्नमाला । सर्वागमेषु सर्वशास्त्रेषु । विदितानि व्याख्यातानि, परश्शतानि
1. वर्षशब्दः, न कालपरः, अपि त्वत्र देशपरः ॥
2.
इलावृते वर्षे मन्दर - भारतवर्षे वाराणसी शिवाधिष्ठानम् इति भावः ॥
3.
भुवनात् शिवाधिष्ठानम् - इति मूलपाठ: "भवनात्" - इति व्याख्यापाठः
-