This page has been fully proofread twice.

अत्रान्तरे सुरगुरुर्दुरितं सुराणां
अल्पावशेषमवयन् प्रणिधानयोगात् ।
अभ्येत्य निर्जरवरैरभिवन्द्य aभक्त्या
पर्यावृतस्सदसि किञ्चिदिदं बभाषे ॥ २ ॥
 
'दिष्ट्या कुशलिनो वश्चिरादद्राक्षम् । दिष्ट्या चोत्तीर्णप्रायोऽयमापदर्णवः । दिष्ट्या च दुर्लभमिदं तपोवनमहो भवद्भिरासादितम् ।
 
[commentary]
 
जीवस्य । 'जीव आङ्गीरसो वाचस्पतिश्चित्रशिखण्डिजः' इत्यमरः । आगमनं काङ्क्षन्तः इच्छन्तस्सन्तः । अवतस्थिरे ऊषुः । 'समवप्रविभ्यस्स्थः' (१.३.२३) इत्यात्मनेपदं लिट् । भगवद्भजनवशेन क्षाळितपापराशीन् सुरान् प्रत्यागत्य गुरुः कुशलाद्यपृच्छदित्याह ॥ अत्रान्तर इति ॥ अत्रान्तरे अस्मिन्नवसरे, सुराणां गुरुः हितोपदेष्टा बृहस्पतिः प्रणिधानस्य ध्यानधारणसमाधित्रयस्य, योगात् सन्नहनात्, अवलम्बनादिति यावत् । यद्वा प्रणिधानं ध्यानधारणसमाधित्रयमेव, योगः उपायः, तस्मादित्यर्थः । उक्तार्थस्तु पातञ्जलसूत्रव्याख्याने लिखितः । 'ध्यानं तथा धारणं च समाधिश्चेति तत्त्रयम् । प्रणिधानमिति प्राहुर्योगसिद्धान्तकोविदाः ॥' इति वचनं च । 'योगस्सन्नहनोपाय' इत्यमरश्च । सुराणां दुरितं, अल्पेन अल्पांशेन, अवशेषं अवशिष्टं, अवयन् विदन् सन्, अभ्येत्य आगत्य,
मन्दरमिति शेषः । निर्जराणां देवानां, वरैः श्रेष्ठैः, अभिवन्द्यमानः नमस्क्रियमाणः तैरेव पर्यावृतः परिवृतस्सन् । अभिवन्द्य भक्त्येति पाठे निर्जरवरैः भक्त्या अभिवन्द्य पर्यावृत इत्यन्वयः । सदसि सभायां किञ्चिदिदं वक्ष्यमाणप्रकारं, वचः बभाषे उवाच । भाषणप्रकारमाह ॥ दिष्ट्या कुशलिन इति ॥ दिष्ट्या दैवेन, कुशलिनः क्षेमवतः वः युष्मान् चिरात् बहुकालात् अद्राक्षं अपश्यम् । अयं मुनिशापलक्षणः, आपदेव अर्णवश्च, दिष्ट्या देवेनोत्तीर्णप्रायः, किंचिदवशेषं यथा तथा तीर्ण इत्यर्थः । दुर्लभं दुष्प्रापं इदं तपोयोग्यं वनं, दिष्ट्या
 
a. 'निर्जरवरैरभिवन्द्यमानः' -- इति पाठं व्याख्याय 'अभिवन्द्य भक्त्या' इति पाठमपि व्याचष्टे ॥ द्वितीयपाठे 'भक्त्या अभिवन्द्य' -- इत्येतत् 'पर्यावृतः' -- इति मुख्यक्रियायां गुणभूतक्रिया इति वेदितव्यम् ॥ 'प्रधानक्रियायामुच्यमानस्य गुणभूतक्रियायामप्युक्तिः' इति न्यायात् 'अभिवन्द्य' -- इति ल्यपोऽपि कर्मार्थकता ॥