This page has not been fully proofread.

द्वितीयाश्वासः
 
अत्रान्तरे सुरगुरुर्दुरितं सुराणां
अल्पावशेषमवयन् प्रणिधानयोगात् ।
अभ्येत्य निर्जरवरैरभिवन्द्य भक्त्या
 
पर्यावृतस्सदसि किञ्चिदिदं बभाषे ॥ २ ॥
 
'दिष्ट्या कुशलिनो वश्चिरादद्राक्षम् । दिष्ट्या चोत्तीर्णप्रायोऽय-
मापदर्णवः । दिष्ट्या च दुर्लभमिदं तपोवनमहो भवद्भिरासादितम् ।
 
जीवस्य । 'जीव आङ्गीरसो वाचस्पतिश्चित्रशिखण्डिजः' इत्यमरः । आगमनं
काङ्क्षन्तः इच्छन्तस्सन्तः । अवतस्थिरे ऊषुः । 'समवप्रविभ्यस्स्थः' (1-3-23) इत्या-
त्मनेपदं लिट् । भगवद्भजनवशेन क्षाळितपापराशीन् सुरान् प्रत्यागत्य गुरु: कुशलाथ-
पृच्छदित्याह ॥ अत्रान्तर इति ॥ अत्रान्तरे अस्मिन्नवसरे, सुराणां गुरुः हितो-
पदेष्टा बृहस्पतिः प्रणिधानस्य ध्यानधारणसमाधित्रयस्य, योगात् सन्नहनात्,
अवलम्बनादिति यावत् । यद्वा प्रणिधानं ध्यानधारणसमाधित्रयमेव, योगः
उपाय:, तस्मादित्यर्थः। उक्तार्थस्तु पातञ्जलसूत्रव्याख्याने लिखितः । 'ध्यानं
तथा धारणं च समाधिश्चेति तत्त्रयम् । प्रणिधानमिति प्राहुर्योगसिद्धान्तको -
विदाः ॥' इति वचनं च । 'योगस्सन्नहनोपाय' इत्यमरश्च । सुराणां दुरितं,
अल्पेन अल्पांशेन, अवशेष अवशिष्टं, अवयन् विदन् सन्, अभ्येत्य आगत्य,
मन्दरमिति शेषः । निर्जराणां देवानां, वरैः श्रेष्ठैः, अभिवन्द्यमानः नमस्क्रियमाणः
तैरेव पर्यावृतः परिवृतस्सन् । अभिवन्द्य भक्तयेति पाठे निर्जरवरैः भत्त्या
अभिवन्द्य पर्यावृत इत्यन्वयः । सदसि सभायां किञ्चिदिदं वक्ष्यमाणप्रकारं वचः
बभाषे उवाच । भाषणप्रकारमाह ॥ दिष्टया कुशलिन इति ॥ दिष्टया दैवेन,
कुशलिन: क्षेमवतः वः युष्मान् चिरात् बहुकालात् अद्राक्षं अपश्यम् ।
अयं मुनिशापलक्षणः, आपदेव अर्णवश्च, दिष्टया देवेनोत्तीर्णप्रायः, किंचिदव-
शेषं यथा तथा तीर्ण इत्यर्थः । दुर्लभं दुष्पापं इदं तपोयोग्यं वनं, दिष्टचा
 
"
 
."
 
a.
 
-
 
• इति पाठं व्याख्याय 'अभिवन्द्य भक्तथा' इति
पाठनपि व्याचष्टे ॥ द्वितीयपाठे 'भक्तथा अभिवन्य' - इत्येतत् 'पर्यावृत:'- इति
मुख्यक्रियायां गुणभूतकिया इति वेदितव्यम् ॥ 'प्रधानक्रियायामुच्यमानस्य गुणभूत-
क्रियायामप्युक्ति: ' इति न्यायात् 'अभिवन्द्य' – इति ल्यपोऽपि कमर्थिकता ॥
 
'निर्जरवरैरभिवन्द्यमानः '
 
-