2023-08-26 09:18:27 by Bharadwajraki
This page has been fully proofread twice.
महर्षीन्मुमूर्षतः परीत्य परिहरन्तः प्रायणक्लेशमपि वरदानैः, निवेदयत प्रसङ्गेन नः aकष्टामिमांb दशां भगवति पितामहे, न विस्मरतास्मदभ्यर्थनामध्यात्मविचारव्यासङ्गेनेत्युद्बोधयन्तः, स्वयमस्वप्नतया स्वप्नदृशस्तपोधनान् परिपृच्छन्तः पर्यवसानं मुनिशापस्य, निन्दन्तः स्वानिजन्मानि, निःश्वसन्तो दीर्घमुष्णञ्च, मुहूर्मुहुः ब(व)लाहकमिव चातकाः, वाचस्पतेरागमनमाकांक्षन्तश्चिरमवतस्थिरे ।
[commentary]
ब्रह्मलोकस्य गमनं, तस्योचितानर्हान् मुमूर्षतः[^१] मर्तुमिच्छतः । ब्रह्माणश्च[^२] ते ऋषयश्चेति कर्मधारयः । तान् परीत्य आवृत्य, वराणां दानैः प्रायणं प्राणानां प्रयाणं, देहेन वियोगः, तेन यः परिक्लेशः बाधा, तमपि परिहरन्तः वारयन्तः सन्तः । प्रसङ्गेन प्रसक्तानुप्रसक्त्या । दृष्टामिमां वर्तमानां, नः अस्माकं, दशां अवस्थां, भगवति माहात्म्यवति । 'भगः श्रीकाममाहात्म्यवीर्य..' इत्यमरः । पितामहे ब्रह्मणि, विषये निवेदयत विज्ञापयत, आत्मन्यध्यात्मम्, आत्मविषयक इति यावत् । यः विचाररः उहापोहात्मकमानसक्रियाविशेषः । तस्य व्यासङ्गेन सम्बन्धेन, अविच्छेदेनेति यावत् । अस्मत् अस्माकं, अभ्यर्थनां प्रार्थनां, न विस्मरत विस्मरणं मा कुरुतेत्यर्थः । इतीत्थमुद्बोधयन्तः प्रेरयन्तस्सन्तः, स्वयं अस्वप्नतया स्वापरहिततया स्वप्नान् पश्यन्तीति स्वप्नदृशः, स्वप्नाध्यायविदः स्वप्नद्रष्टॄनिति यावत् । मुनिशापस्य मुनिदत्तशापस्य, पर्यवसानं अवधिं परिपृच्छन्तस्सन्तः । स्वानि[^३] स्वीयानि, जन्मानि उत्पत्तीतीः, निन्दन्तः गर्हयन्तस्सन्तः । दीर्घमुष्णं च निःश्वसन्तः सन्तः ।
मुहुर्मुहुः, चातकाः पक्षिविशेषाः, (ब)वलाहकमिव वारिवाहमिव। वाचस्पतेः
a. 'कष्टाम्' -- इति मूलपाठः, 'दृष्टाम्' -- इति व्याख्यापाठः ॥
b. 'इदमस्तु सन्निकृष्टम्' -- इति कोशात् -- 'इमां=वर्तमानाम्' इत्यर्थलाभः ॥
[^१] मुमूर्षतः=आसन्नमरणान् इत्येव संप्रदायः । 'आशङ्कायां सन् वाच्यः' -- (वा. ३.१.७) श्वा मुमूर्षति, कूलं पिपतिषति इतिवत् । यद्वा ब्रह्मर्षीणां विवेकिनां मरणेच्छायाः उचितत्वात् 'धातोः कर्मणः समानकर्तृकादिच्छायां वा' (पा. सू. ३.१.७) इतीच्छायामेव मुख्यं सनमभिप्रैति व्याख्याता । अचेतनस्य कूलस्य, वराकस्य शुनश्च मरणेच्छायाः अनुचितत्वात् भवतु तत्राशङ्कायां वार्तिकोक्तः सन् इत्याशयः ॥
[^२] 'ब्रह्मर्षीन्' -- इति व्याख्यापाठः । 'महर्षीन्' -- इति मूलपाठः ।
[^३] 'स्वो ज्ञातावात्मनि स्वं, त्रिष्वात्मीये, स्वोऽस्त्रियां धने' -- इति कोशात् --आत्मात्मीयज्ञातिधनवाची स्वशब्दः, आत्मीययार्थकः स्वशब्दः, त्रिषु लिङ्गेषु वर्तमानः विशेष्यनिघ्नः, इत्यर्थः ।
[commentary]
ब्रह्मलोकस्य गमनं, तस्योचितानर्हान् मुमूर्षतः[^१] मर्तुमिच्छतः । ब्रह्माणश्च[^२] ते ऋषयश्चेति कर्मधारयः । तान् परीत्य आवृत्य, वराणां दानैः प्रायणं प्राणानां प्रयाणं, देहेन वियोगः, तेन यः परिक्लेशः बाधा, तमपि परिहरन्तः वारयन्तः सन्तः । प्रसङ्गेन प्रसक्तानुप्रसक्त्या । दृष्टामिमां वर्तमानां, नः अस्माकं, दशां अवस्थां, भगवति माहात्म्यवति । 'भगः श्रीकाममाहात्म्यवीर्य..' इत्यमरः । पितामहे ब्रह्मणि, विषये निवेदयत विज्ञापयत, आत्मन्यध्यात्मम्, आत्मविषयक इति यावत् । यः विचा
मुहुर्मुहुः, चातकाः पक्षिविशेषाः, (ब)वलाहकमिव वारिवाहमिव। वाचस्पतेः
a. 'कष्टाम्' -- इति मूलपाठः, 'दृष्टाम्' -- इति व्याख्यापाठः ॥
b. 'इदमस्तु सन्निकृष्टम्' -- इति कोशात् -- 'इमां=वर्तमानाम्' इत्यर्थलाभः ॥
[^१] मुमूर्षतः=आसन्नमरणान् इत्येव संप्रदायः । 'आशङ्कायां सन् वाच्यः' -- (वा. ३.१.७) श्वा मुमूर्षति, कूलं पिपतिषति इतिवत् । यद्वा ब्रह्मर्षीणां विवेकिनां मरणेच्छायाः उचितत्वात् 'धातोः कर्मणः समानकर्तृकादिच्छायां वा' (पा. सू. ३.१.७) इतीच्छायामेव मुख्यं सनमभिप्रैति व्याख्याता । अचेतनस्य कूलस्य, वराकस्य शुनश्च मरणेच्छायाः अनुचितत्वात् भवतु तत्राशङ्कायां वार्तिकोक्तः सन् इत्याशयः ॥
[^२] 'ब्रह्मर्षीन्' -- इति व्याख्यापाठः । 'महर्षीन्' -- इति मूलपाठः ।
[^३] 'स्वो ज्ञातावात्मनि स्वं, त्रिष्वात्मीये, स्वोऽस्त्रियां धने' -- इति कोशात् --आत्मात्मीयज्ञातिधनवाची स्वशब्दः, आत्मी