2023-07-22 09:40:35 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  मीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  महर्षीन्मुमूर्षतः परीत्य परिहरन्तः प्रायणक्लेशमपि वरदानैः, निवेदयत
  
  
  
   प्रसङ्गेन नः aकष्टामिमांb दशां भगवति पितामहे, न विस्मरतास्मद-
  
  
  
  भ्यर्थना मध्यात्मविचारव्यासङ्गेनेत्युद्धोबोधयन्तः, स्वयम स्वमतया स्वप्रस्वप्नतया स्वप्नदृश-
  
  
  
  स्तपोधनान् परिपृच्छन्तः पर्यवसानं मुनिशापस्य, निन्दन्तः स्वानि
  
  
  
  जन्मानि, निःश्वसन्तो दीर्घमुष्णञ्च, मुहूर्मुहुः ब (व)लाहकमिव चातकाः,
  
  
  
   वाचस्प तेरागमनमाकांक्षन्तश्विचिरमवतस्थिरे ।
  
  
  
   
  
  
  
  1
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  ब्रह्मलोकस्य गमनं, तस्योचितानर्हान् मुमूर्षत: 'तः[^१] मर्तुमिच्छतः । ब्रह्माणश्च[^२] ते
  
  
  
   ऋषयश्चेति कर्मधारयः । तान् परीत्य आवृत्य, वराणां दानैः प्रायणं प्राणानां
  
  
  
   प्रयाणं, देहेन वियोगः, तेन यः परिक्लेश:शः बाधा, तमपि परिहरन्तः वारयन्तः
  
  
  
   सन्तः । प्रसङ्गेन प्रसक्तानुप्रसक्त्या । दृष्टामिमां वर्तमानां, नः अस्माकं, दशां
  
  
  
   अवस्थां, भगवति माहात्म्यवति । 'भग:गः श्रीकाममाहात्म्यवीर्य..' इत्यमरः । पितामहे
  
  
  
   ब्रह्मणि, विषये निवेदयत विज्ञापयत, आत्मन्यध्यात्मम्, आत्मविषयक इति यावत् ।
  
  
  
   यः विचार उहापोहात्मकमानसक्रियाविशेषः । तस्य व्यासङ्गेन सम्बन्धेन,
  
  
  
   अविच्छेदेनेति यावत् । अस्मत् अस्माकं, अभ्यर्थनां प्रार्थनां, न विस्मरत विस्मरणं
  
  
  
   मा कुरुतेत्यर्थः । इतीत्थमुद्बोधयन्तः प्रेरयन्तस्सन्तः, स्वयं अस्वप्नतया स्वापरहित-
  
  
  
  तया स्वप्नान् पश्यन्तीति स्वप्नदृशः, स्वप्नाध्यायविदः स्वप्नद्रष्टृ टॄनिति यावत् । मुनि-
  
  
  
  शापस्य मुनिदत्तशापस्य, पर्यवसानं अवधिं परिपृच्छन्तस्सन्तः । स्वानि[^३] स्वीयानि,
  
  
  
   जन्मानि उत्पत्ती, निन्दन्तः गर्हयन्तस्सन्तः । दीर्घमुष्णं च निःश्वसन्तः सन्तः ।
  
  
  
  
  
  
  
  मुहुर्मुहुः, चातकाः पक्षिविशेषाः, (ब) वलाहकमिव वारिवाहमिव। वाचस्पतेः
  
  
  
   
  
  
  
  :
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  a.
  
  
  
   
  
  
  
  b.
  
  
  
   
  
  
  
   'कष्टाम्' -- इति मूलपाठः, 'दृष्टाम्' –-- इति व्याख्यापाठः ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  b. 'इदमस्तु सन्निकृष्टम्' –-- इति कोशात् –-- 'इमां = वर्तमानाम्' इत्यर्थलाभः ॥
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] मुमूर्षतः = आसन्नमरणान् इत्येव संप्रदाय:यः । 'आशङ्कायां सन् वाच्यः' –-- (वा.
  
  
  
  3-1-7  ३.१.७) श्वा मुमूर्षति, कूलं पिपतिषति इतिवत् । यद्वा ब्रह्मर्षीणां विवेकिनां मरणेच्छायाः
  
  
  
   उचितत्वात् 'धातोः कर्मण:णः समानकर्तृकादिच्छायां वा' (पा. सू. 3-1-7 ३.१.७) इतीच्छायामेव
  
  
  
   मुख्यं सनमभिप्रैति व्याख्याता । अचेतनस्य कूलस्य, वराकस्य शुनश्च मरणेच्छायाः अनुचि-
  
  
  
  तत्वात् भवतु तत्राशङ्कायां वार्तिकोक्तः सन् इत्याशयः ॥
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] 'ब्रह्मर्षीन्' –-- इति व्याख्यापाठः । 'महर्षीन्' -- इति मूलपाठः ।
  
  
  
   
  
  
  
  3.
  
  
  
   
  
  
  
  [^३] 'स्वो ज्ञातावात्मनि स्वं, त्रिष्वात्मीये, स्वोऽस्त्रियां धने' –-- इति कोशात् -
  
  
  
  -आत्मात्मीयज्ञातिधनवाची स्वशब्दः, आत्मीयर्थिथकः स्वशब्दः, त्रिषु लिङ्गेषु वर्तमानः
  
  
  
   विशेष्यनिघ्नः, इत्यर्थः ।