2023-06-05 16:39:55 by ambuda-bot
This page has not been fully proofread.
मीलकण्ठविजये सव्याख्याने
महर्षीन्मुमूर्षतः परीत्य परिहरन्तः प्रायणक्लेशमपि वरदानैः, निवेदयत
प्रसङ्गेन नः कष्टामिमां दशां भगवति पितामहे, न विस्मरतास्मद-
भ्यर्थना मध्यात्मविचारव्यासङ्गेनेत्युद्धोधयन्तः, स्वयम स्वमतया स्वप्रदृश-
स्तपोधनान् परिपृच्छन्तः पर्यवसानं मुनिशापस्य, निन्दन्तः स्वानि
जन्मानि, निःश्वसन्तो दीर्घमुष्णञ्च, मुहूर्मुहुः ब (व)लाहकमिव चातकाः,
वाचस्प तेरागमनमाकांक्षन्तश्विरमवतस्थिरे ।
1
ब्रह्मलोकस्य गमनं, तस्योचितानर्हान् मुमूर्षत: ' मर्तुमिच्छतः । ब्रह्माणश्च ते
ऋषयश्चेति कर्मधारयः । तान् परीत्य आवृत्य, वराणां दानैः प्रायणं प्राणानां
प्रयाणं, देहेन वियोगः, तेन यः परिक्लेश: बाधा, तमपि परिहरन्तः वारयन्तः
सन्तः । प्रसङ्गेन प्रसक्तानुप्रसक्त्या । दृष्टामिमां वर्तमानां, नः अस्माकं, दशां
अवस्थां, भगवति माहात्म्यवति । 'भग: श्रीकाममाहात्म्यवीर्य..' इत्यमरः । पितामहे
ब्रह्मणि, विषये निवेदयत विज्ञापयत, आत्मन्यध्यात्मम्, आत्मविषयक इति यावत् ।
यः विचार उहापोहात्मकमानसक्रियाविशेषः । तस्य व्यासङ्गेन सम्बन्धेन,
अविच्छेदेनेति यावत् । अस्मत् अस्माकं, अभ्यर्थनां प्रार्थनां, न विस्मरत विस्मरणं
मा कुरुतेत्यर्थः । इतीत्थमुद्बोधयन्तः प्रेरयन्तस्सन्तः, स्वयं अस्वप्नतया स्वापरहित-
तया स्वप्नान् पश्यन्तीति स्वप्नदृशः, स्वप्नाध्यायविदः स्वप्नद्रष्टृ निति यावत् । मुनि-
शापस्य मुनिदत्तशापस्य, पर्यवसानं अवधिं परिपृच्छन्तस्सन्तः । स्वानि स्वीयानि,
जन्मानि उत्पत्ती, निन्दन्तः गर्हयन्तस्सन्तः । दीर्घमुष्णं च निःश्वसन्तः सन्तः ।
मुहुर्मुहुः, चातकाः पक्षिविशेषाः, (ब) वलाहकमिव वारिवाहमिव। वाचस्पतेः
:
a.
b.
'कष्टाम्' - इति मूलपाठः, 'दृष्टाम्' – इति व्याख्यापाठः ॥
'इदमस्तु सन्निकृष्टम्' – इति कोशात् – 'इमां = वर्तमानाम्' इत्यर्थलाभः ॥
1. मुमूर्षतः = आसन्नमरणान् इत्येव संप्रदाय: । 'आशङ्कायां सन् वाच्यः' –(वा.
3-1-7 ) श्वा मुमूर्षति, कूलं पिपतिषति इतिवत् । यद्वा ब्रह्मर्षीणां विवेकिनां मरणेच्छायाः
उचितत्वात् 'धातोः कर्मण: समानकर्तृकादिच्छायां वा' (पा. सू. 3-1-7 ) इतीच्छायामेव
मुख्यं सनमभिप्रैति व्याख्याता । अचेतनस्य कूलस्य, वराकस्य शुनश्च मरणेच्छायाः अनुचि-
तत्वात् भवतु तत्राशङ्कायां वार्तिकोक्तः सन् इत्याशयः ॥
2. 'ब्रह्मर्षीन्' – इति व्याख्यापाठः । 'महर्षीन्' - इति मूलपाठः ।
3. 'स्वो ज्ञातावात्मनि स्वं, त्रिष्वात्मीये, स्वोऽस्त्रियां धने' – इति कोशात् -
आत्मात्मीयज्ञातिधनवाची स्वशब्दः, आत्मीयर्थिकः स्वशब्दः, त्रिषु लिङ्गेषु वर्तमानः
विशेष्यनिघ्नः, इत्यर्थः ।