2023-07-22 09:26:15 by Bharadwajraki
This page has been fully proofread once and needs a second look.
किं वदन्त्यस्मान् कथाप्रसङ्गेषु, किमितिवृत्तमेषाम्, अनुमतं पितामहेन, किं वा न तदवतीर्णमद्यापि तस्य कर्णपथं, किमाहुस्सुरमौहूर्तिकाः, कीदृशो भार्गवस्य वृत्तान्तः, कथमास्ते वैजयन्तः, कस्य वशे नन्दनोद्यानं, उद्वान्तचतुर्दन्त इति श्रुतम्, उच्चैश्रवसः प्रवृत्तिमेव नोपलभामहे' इत्यनुयुञ्जानाश्चकितचकितमवलोक्य समन्ततः, किञ्च ब्रह्मलोकगमनोचितान्
[commentary]
सति, दिवः । ल्यब्लोपे[^१] कर्मणि पञ्चमी । दिवं बिहायेत्यर्थः । पुनरवरूढान् पुनरापततः, भूमिं प्रतीति शेषः । कर्मदेवान् पूर्वोक्तलक्षणान्, आवृत्य परिवृत्येत्यर्थः । दानवाः किं कुर्वन्ति, कथानां लोकवृत्तानां प्रसङ्गेषु, प्रसक्तिषु अस्मान् किं वदन्ति कथंभूतान् कथयन्तीत्यर्थः । एषां अस्माकं, वृत्तं किमिति किंभूतमिति वदन्तीत्यस्यानुषङ्गः[^२] । पितामहेन ब्रह्मणा अनुमतं किं अङ्गीकृतं किं ? एतदित्यस्य गम्यमानत्वादप्रयोगः । अथवा [^३]अनुमतं किं विदितं किमित्यर्थः । किंवा आहोस्वित् । अद्यापि तस्य ब्रह्मणः कर्णपथं[^४] श्रोत्रदेशं, तद्वृत्तं नावतीर्णं न प्राप्तमित्यर्थः । असुराणां मौहूर्तिकाः मुहूर्तज्ञानिनः, किमाहुः किं ब्रुवन्तीत्यर्थः । भार्गवस्य उशनसः, वृत्तान्तः कीदृशः कथम्भूतः, वैजयन्तः इन्द्रप्रासादः, कथमास्ते वर्तते, नन्दनसंज्ञकं उद्यानं उपवनं, कस्य वशे अधीनतायाम् । चत्वारः दन्ताः यस्य सः चतुर्दन्तः, ऐरावतः उद्वान्तः निर्मद इति श्रुतम् । 'प्रभिन्नो गर्जितो मत्तस्समावुद्वान्तनिर्मदौ' इत्यमरः । उच्चैश्श्रवसः हयस्य, प्रवृत्तिं वृत्तान्तं, नोपलभामहे न जानीमहे, इति, समन्ततः अवलोक्य, चकितं[^५] सभयं यथा तथा । अनुयुञ्जानाः पृच्छन्तस्सन्तः
[^१] 'ल्यब् लोपे कर्मण्यधिकरणे च' (वा - १.४.३१) -- इति वार्तिकेन 'प्रासादात् प्रेक्षते -- प्रासादमारुह्य प्रेक्षते' इतिवत् 'दिवः अवरूढान् -- दिवं विहाय अवरूढान्' -- इत्यर्थः इति भावः । अथवा दिवस्सकाशात् अवरूढान् इति, वृक्षात् पर्णं पततीतिवत्, अपादाने अवधिभूतात् पञ्चमी कारकरूपा इत्यपि घटते ॥
[^२] पूर्ववाक्यस्थपदयोजनमनुषङ्गः वेदे प्रसिद्धः । अनुवृत्तिरिति पाणिनीयाः आहुः । अश्रुतयोजने अध्याहारः इति च व्यवहारः ॥ तथा च जैमिनीयं सूत्रम् -- 'अनुषङ्गो वाक्यपरिसमाप्तिः सर्वेषु तुल्ययोगित्वात्' (२.१.४८) इति ॥
[^३] विदितम् -- अङ्गीकृतम् -- इत्यर्थद्वयमभिप्रेत्यानुमतमिति पदस्य पक्षद्वयमाह ॥
[^४] कर्णयोः पन्था इति तत्पुरुषे 'ऋक्पूरब्धूः पथामानक्षे' (पा. सू. ५.४.७४) इत्यनेन समासान्तेन नान्तः पथिन्शब्दः अकारान्तो जातः रामशब्दवत् ॥
[^५] 'चकितचकितम्' इति मूलपाठः ।