2023-07-22 09:26:06 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  द्वितीया श्वासः
  
  
  
   
  
  
  
  किं वदन्त्यस्मान् कथाप्रसङ्गेषु, किमितिवृत्तमेषाम्, अनुमतं पिताम-
  
  
  
  हेन, किं वा न तदवतीर्णमद्यापि तस्य कर्णपथं, किमाहुस्सुरमौहूर्तिकाः,
  
  
  
   कीदृशो भार्गवस्य वृत्तान्तः, कथमास्ते वैजयन्तः, कस्य वशे नन्दनोद्यानं,
  
  
  
   उद्वान्तचतुर्दन्त इति श्रुतम्, उच्चैश्रवसः प्रवृत्तिमेव नोपलभामहे' इत्यनु-
  
  
  
  युञ्जाना श्चकितचकितमवलोक्य समन्ततः, किञ्च ब्रह्मलोकग मनोचितान्
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  सति, दिव:वः । ल्यब्लोपे[^१] कर्मणि पञ्चमी । दिवं बिहायेत्यर्थः । पुनरवरूढान् पुनरा-
  
  
  
  पततः, भूमिं प्रतीति शेषः । कर्मदेवान् पूर्वोक्तलक्षणान्, आवृत्य परिवृत्येत्यर्थः ।
  
  
  
   दानवाः किं कुर्वन्ति, कथानां लोकवृत्तानां प्रसङ्गेषु, प्रसक्तिषु अस्मान् किं वदन्ति
  
  
  
   कथंमूभूतान् कथयन्तीत्यर्थः । एषां अस्माकं, वृत्तं किमिति किंभूतमिति वदन्तीत्य -
  
  
  
  स्यानुषङ्ग : 2गः[^२] । पितामहेन ब्रह्मणा अनुमतं किं अङ्गीकृतं किं ? एतदित्यस्य गम्यमा
  
  
  
  2
  
  
  
  नत्वादप्रयोगः । अथवा '[^३]अनुमतं किं विदिततं किमित्यर्थः । किंवा आहोस्वित् ।
  
  
  
   अद्यापि तस्य ब्रह्मणः कर्णपथं[^४] श्रोत्रदेशं, तद्वृत्तं नावतीर्णणं न प्राप्तमित्यर्थः ।
  
  
  
   असुराणां मौहूर्तिकाः मुहूर्तज्ञानिन:नः, किमाहुः किं ब्रुवन्तीत्यर्थः । भार्गवस्य उश-
  
  
  
  नसः, वृत्तान्तः कीदृशः कथम्भूतः, वैजयन्तः इन्द्रप्रासाददः, कथमास्ते वर्तते,
  
  
  
   नन्दनसंज्ञकं उद्यानं उपवनं, कस्य वशे अधीनतायाम् । चत्वारः दन्ताः यस्य सः
  
  
  
   चतुर्दन्त:तः, ऐरावत:तः उद्वान्तः निर्मद इति श्रुतम् । 'प्रभिन्नो गर्जितो मत्तस्समावुद्वान्त-
  
  
  
  निर्मदौ' इत्यमरः । उच्चैश्श्रवस:सः हयस्य, प्रवृत्तिं वृत्तान्तं, नोपलभामहे न जानीमहे,
  
  
  
   इति, समन्ततः अवलोक्य, चकितं '[^५] सभयं यथा तथा । अनुयुञ्जानाः पृच्छन्तस्सन्तः
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] 'ल्यब् लोपे कर्मण्यधिकरणे च' (वा - 1१.४.३१) -4-31) — इति वार्तिकेन 'प्रासादात् प्रेक्षते
  
  
  
   -- प्रासादमारुह्य प्रेक्षते' इतिवत् 'दिवः अवरूढान्– -- दिवं विहाय अवरूढान्' -- इत्यर्थः
  
  
  
   इति भावः । अथवा दिवस्सकाशात् अवरूढान् इति, वृक्षात् पर्णणं पततीतिवत्, अपादाने
  
  
  
   अवधिभूतात् पञ्चमी कारकरूपा इत्यपि घटते ॥
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] पूर्ववाक्यस्थपदयोजनमनुषङ्गः वेदे प्रसिद्धः । अनुवृत्तिरिति पाणिनीयाः
  
  
  
   आहुः । अश्रुतयोजने अध्याहारः इति च व्यवहारः ॥ तथा च जैमिनीयं सूत्रम् -
  
  
  
  - 'अनुषङ्गो वाक्यपरिसमाप्तिः सर्वेषु तुल्ययोगित्वात्' (2-1-48२.१.४८) इति ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [^३] विदितम् -- अङ्गीकृतम् -- इत्यर्थद्वयमभिप्रेत्यानुमतमिति पदस्य पक्षद्वयमाह ॥
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  3.
  
  
  
   
  
  
  
  4.
  
  
  
   
  
  
  
  [^४] कर्णयोः पन्था इति तत्पुरुषे 'ऋक्पूरब्धू:धूः पथामानक्षे' (पा. सू. 5-4-74५.४.७४)
  
  
  
   
  
  
  
   इत्यनेन समासान्तेन नान्तः पथिन्शब्द:दः अकारान्तो जातः रामशब्दवत् ॥
  
  
  
   
  
  
  
  5.
  
  
  
   
  
  
  
  [^५] 'चकितचकितम्' इति मूलपाठः ।
  
  
  
  N. - 13