2023-06-05 16:39:54 by ambuda-bot
This page has not been fully proofread.
द्वितीया श्वासः
किं वदन्त्यस्मान् कथाप्रसङ्गेषु, किमितिवृत्तमेषाम् अनुमतं पिताम-
हेन, किं वा न तदवतीर्णमद्यापि तस्य कर्णपथं, किमाहुस्सुरमौहूर्तिकाः,
कीदृशो भार्गवस्य वृत्तान्तः, कथमास्ते वैजयन्तः, कस्य वशे नन्दनोद्यानं,
उद्वान्तचतुर्दन्त इति श्रुतम्, उच्चैश्रवसः प्रवृत्तिमेव नोपलभामहे' इत्यनु-
युञ्जाना चकितचकितमवलोक्य समन्ततः, किञ्च ब्रह्मलोकग मनोचितान्
सति, दिव: । ल्यब्लोपे कर्मणि पञ्चमी । दिवं बिहायेत्यर्थः । पुनरवरूढान् पुनरा-
पततः, भूमिं प्रतीति शेषः । कर्मदेवान् पूर्वोक्तलक्षणान्, आवृत्य परिवृत्येत्यर्थः ।
दानवाः किं कुर्वन्ति, कथानां लोकवृत्तानां प्रसङ्गेषु, प्रसक्तिषु अस्मान् किं वदन्ति
कथंमूतान् कथयन्तीत्यर्थः । एषां अस्माकं, वृत्तं किमिति किंभूतमिति वदन्तीत्य -
स्यानुषङ्ग : 2। पितामहेन ब्रह्मणा अनुमतं किं अङ्गीकृतं किं ? एतदित्यस्य गम्यमा
2
नत्वादप्रयोगः । अथवा 'अनुमतं किं विदित किमित्यर्थः । किंवा आहोस्वित् ।
अद्यापि तस्य ब्रह्मणः कर्णपथं श्रोत्रदेशं तद्वृत्तं नावतीर्ण न प्राप्तमित्यर्थः ।
असुराणां मौहूर्तिकाः मुहूर्तज्ञानिन:, किमाहुः किं ब्रुवन्तीत्यर्थः । भार्गवस्य उश-
नसः, वृत्तान्तः कीदृशः कथम्भूतः, वैजयन्तः इन्द्रप्रासाद, कथमास्ते वर्तते,
नन्दनसंज्ञकं उद्यानं उपवनं, कस्य वशे अधीनतायाम् । चत्वारः दन्ताः यस्य सः
चतुर्दन्त:, ऐरावत: उद्वान्तः निर्मद इति श्रुतम् । 'प्रभिन्नो गर्जितो मत्तस्समावुद्वान्त-
निर्मदौ' इत्यमरः । उच्चैश्श्रवस: हयस्य, प्रवृत्तिं वृत्तान्तं, नोपलभामहे न जानीमहे,
इति, समन्ततः अवलोक्य, चकितं ' सभयं यथा तथा । अनुयुञ्जानाः पृच्छन्तस्सन्तः
1. 'ल्यब् लोपे कर्मण्यधिकरणे च' (वा- 1-4-31) — इति वार्तिकेन 'प्रासादात् प्रेक्षते
- प्रासादमारुह्य प्रेक्षते' इतिवत् 'दिवः अवरूढान्– दिवं विहाय अवरूढान्' इत्यर्थः
इति भावः । अथवा दिवसकाशात् अवरूढान् इति, वृक्षात् पर्ण पततीतिवत्, अपादाने
अवधिभूतात् पञ्चमी कारकरूपा इत्यपि घटते ॥
2. पूर्ववाक्यस्थपदयोजनमनुषङ्गः वेदे प्रसिद्धः । अनुवृत्तिरिति पाणिनीयाः
आहुः । अश्रुतयोजने अध्याहारः इति च व्यवहारः ॥ तथा च जैमिनीयं सूत्रम् -
'अनुषङ्गो वाक्यपरिसमाप्तिः सर्वेषु तुल्ययोगित्वात्' (2-1-48) इति ॥
विदितम् - अङ्गीकृतम् - इत्यर्थद्वयमभिप्रेत्यानुमतमिति पदस्य पक्षद्वयमाह ॥
-
3.
4. कर्णयोः पन्था इति तत्पुरुषे 'ऋपूरब्धू: पथामानक्षे' (पा. सू. 5-4-74)
इत्यनेन समासान्तेन नान्तः पथिन्शब्द: अकारान्तो जातः रामशब्दवत् ॥
5. 'चकितचकितम्' इति मूलपाठः ।
N. - 13