2023-08-26 09:08:45 by Bharadwajraki
This page has been fully proofread twice.
सम्मन्यमानेषु शास्त्रैकशरणेषु तापसेषु तप्यमानाः क्षुधा विबुधाः, हुत्वा हवींषि हुतवहे, दत्तानि तेनैव पुनस्तान्युपयुञ्जानाः कालं महान्तमतिवाहयाञ्चक्रिरे । अपरे पुनः केचिदतिवेलश्रद्धामात्रशरणणानधिगम्य मूर्खान् अमुनैव शरीरेण दिवमारोपयामो[^१] भवतस्सबान्धवान्, अत्रैवानीय दर्शयिष्यामस्सुरसुन्दरीरिति प्रलोभयन्तः, aपशुपक्षिसुराकुम्भपायसापूपप्रचुरानलभन्त महोपहारान् । अपि च पुनरवरूढान् कर्मक्षये दिवः कर्मदेवानावृत्य 'किं कुर्वन्ति दानवाः, किं
[commentary]
दानवेषु, दूतेन भृत्येनैव मुखेन अपहरत्सु सत्सु । शास्त्रं 'यश्शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति .....' (भ.गी. 16-23) इत्यादिशास्त्रम् । एकं मुख्यं, शरणं रक्षितृ, येषां तेषु, तापसेषु ऋषिषु, अभ्यर्थनया प्रार्थनयापि, अकाले अनुचितकाले वा अयज्ञेन स्वाहाकारस्वधाकारऋत्विक्सदस्यादिव्यवस्थारहिततूष्णींहविःप्रक्षेपादिलक्षणकर्मणा वा । रहसि
विविक्तदेशे, दातुं असम्मन्यमानेषु अननुमन्यमानेषु सत्सु । क्षुधा बुभुक्षया । 'अशनाया बुभुक्षा क्षुत्' इत्यमरः । तप्यमानाः पीड्यमानाः, विबुधाः सुराः, हुतवहे लौकिकाग्नौ, हवींषि, [^२]दत्त्वा प्रक्षिप्येत्यर्थः ।घाधातूनामनेकार्थत्वात् । पुनः, तेन अग्निना दत्तानि वितीर्णानि हवींष्येव उपभुञ्जानाः अभ्यवहरन्तस्सन्तः । महान्तं बहुं कालं अतिवाहयाञ्चक्रिरे क्षपयामासुरित्यर्थः । अपरे केचित्पुनः,
अतिवेलं नितान्तं, श्रद्धामात्रं आस्तिक्यबुद्धिमात्रं, शरणं रक्षितृ, येषां ते तान्, मूर्खान् मूढान्, अवैदिकानिति शेषः । 'अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः' इत्यमरः । सबान्धवान् भवतः, अमुना शरीरेण, दिवं स्वर्गं आरोपयिष्यामः, अत्र लोक एव, सुरसुन्दरीरानीय सन्निधिं प्रापय्य, दर्शयिष्याम इति, प्रलोभयन्तः प्रतारयन्तस्सन्तः । सुराकुम्भः मद्यभाण्डं, स च पायसं च, अपूपाश्च ते, एतैः
प्रचुरान् बहुळान्, उपहारान् उपायनानीत्यर्थः । 'उपायनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः । अलभन्त प्रापुः । अन्नाभावे के वा देहाभिमानिनः परान् न वञ्चयन्तीति भावः ॥ अपि चेति ॥ कर्मणां स्वानुष्ठितसत्कर्मजन्यापूर्वाणां, क्षये नाशे
[^१] 'आरोपयिष्यामः' इति व्याख्यापाठः ।
[^२] मूलपाठस्तु 'हुत्वा' इति ।
a. 'पशुपक्षि' -- अयं भागः न व्याख्यातः, कदाचिदधिकः स्यात् अनावश्यकोऽपि ॥
[commentary]
दानवेषु, दूतेन भृत्येनैव मुखेन अपहरत्सु सत्सु । शास्त्रं 'यश्शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति .....' (भ.गी. 16-23) इत्यादिशास्त्रम् । एकं मुख्यं, शरणं रक्षितृ, येषां तेषु, तापसेषु ऋषिषु, अभ्यर्थनया प्रार्थनयापि, अकाले अनुचितकाले वा अयज्ञेन स्वाहाकारस्वधाकारऋत्विक्सदस्यादिव्यवस्थारहिततूष्णींहविःप्रक्षेपादिलक्षणकर्मणा वा । रहसि
विविक्तदेशे, दातुं असम्मन्यमानेषु अननुमन्यमानेषु सत्सु । क्षुधा बुभुक्षया । 'अशनाया बुभुक्षा क्षुत्' इत्यमरः । तप्यमानाः पीड्यमानाः, विबुधाः सुराः, हुतवहे लौकिकाग्नौ, हवींषि, [^२]दत्त्वा प्रक्षिप्येत्यर्थः ।