2023-06-05 16:39:54 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठ विजये सव्याख्याने
-
सम्मन्यमानेषु शास्त्रैकशरणेषु तापसेषु तप्यमानाः क्षुधा विबुधाः,
हुत्वा हवींषि हुतवहे, दत्तानि तेनैव पुनस्तान्युपयुञ्जानाः कालं
महान्तमतिवाहयाञ्चक्रिरे । अपरे पुनः केचिदतिवेलश्रद्धामात्रशर-
नधिगम्य मूर्खान् असुनैव शरीरेण दिवमारोपयामो' भवतस्स-
बान्धवान्, अत्रैवानीय दर्शयिष्यामस्सुरसुन्दरीरिति प्रलोभयन्तः,
'पशुपक्षिसुराकुम्भपायसापूपप्रचुरानलभन्त महोपहारान् । अपि च पुन-
रवरूढान् कर्मक्षये दिवः कर्मदेवानावृत्य 'किं कुर्वन्ति दानवाः, किं
दानवेषु, दूतेन भृत्येनैव मुखेन अपहरत्सु सत्सु । शास्त्रं 'यश्शास्त्रविधिमुत्सृज्य
वर्तते कामकारतः । न स सिद्धिमवाप्नोति ....) (भ.गी. 16-23 ) इत्यादि-
शास्त्रम् । एकं मुख्यं शरणं रक्षितृ, येषां तेषु, तापसेषु ऋषिषु, अभ्यर्थ -
नया प्रार्थनयापि, अकाले अनुचितकाले वा अयज्ञेन स्वाहाकारस्वधाकार-
ऋत्विक्सदस्यादिव्यवस्थारहिततूष्णींह वि: प्रक्षेपादिलक्षणकर्मणा वा । रहसि
विविक्तदेशे, दातुं असम्मन्यमानेषु अननुमन्यमानेषु सत्सु । क्षुषा बुभुक्षया ।
'अशनाया बुभुक्षा क्षुत्' इत्यमरः । तप्यमानाः पीड्यमानाः, विबुधाः
सुराः, हुतवहे लौकिकाभौ, हवींषि, 'दत्त्वा प्रक्षिप्येत्यर्थः । घातूनामनेकार्थत्वात् ।
पुनः, तेन अग्निना दत्तानि वितीर्णानि हवींष्येव उपभुञ्जाना: अभ्यवहरन्तस्सन्तः ।
महान्तं बहुं कालं अतिवाहयाञ्चक्रिरे क्षपयामासुरित्यर्थ: । अपरे केचित्पुनः,
अतिवेलं नितान्तं, श्रद्धामात्र आस्तिक्यबुद्धिमात्र, शरणं रक्षितृ, येषां ते तान्,
मूर्खान् मूढान्, अवैदिकानिति शेष: । 'अज्ञे मूढयथाजातमूर्खवैधेयबालिशा :'
इत्यमरः । सबान्धवान् भवतः, अमुना शरीरेण, दिवं स्वर्ग आरोपयिष्यामः, अत्र
लोक एव, सुरसुन्दरीरानीय सन्निधिं प्रापथ्य, दर्शयिष्याम इति, प्रलोभयन्तः
प्रतारयन्तस्सन्तः। सुराकुम्भः मद्यभाण्डं, स च पायसं च, अपूपाश्च ते, एतैः
मचुरान् बहुळान्, उपहारान् उपायनानीत्यर्थः । 'उपायनमुपग्राह्यमुपहारस्तथोपदा'
इत्यमरः । अलभन्त प्रापुः । अन्नाभावे के वा देहाभिमानिनः परान् न वञ्च-
यन्तीति भावः ॥ अपि चेति ॥ कर्मणां स्वानुष्ठित सत्कर्मजन्यापूर्वाणां, क्षये नाशे
1. 'आरोपयिष्यामः' इति व्याख्यापाठः ।
2. मूलपाठस्तु 'हुत्वा' इति ।
a. 'पशुपक्षि' – अयं भागः न व्याख्यातः, कदाचिदधिकः स्यात् अनावश्य-
-
कोऽपि ॥