This page has been fully proofread twice.

॥ अथ द्वितीयाश्वासः ॥
 
ततः शतमखादयो युधि विरोधिभिर्निर्जितां
श्रियं पुनरभीप्सवः क्रतुभुजो भुजोपार्जिताम् ।
विचित्रमणिसुन्दरं विपुलकन्दरं मन्दरं
समेत्य तपसानयन्निमिषवत्सहस्रं समाः ॥ १ ॥
 
तत्र च वसतां तपोधनानामध्वरहविर्भागमपहरत्सु दूतमुखेन दानवेषु, अकाले वा यष्टुमयज्ञेन वा रहसि प्रदातुमभ्यर्थनयाप्य-
 
[commentary]
 
यदीयचरणाम्भोजभजनाद्वासवादयः ।
तेरुर्दुःखार्णवं देवास्तं वन्दे परमेश्वरम् ॥
 
ननु कान्दिशीका देवाः किं कृतवन्त इति चेत्तदाह तत इति ॥ शतं मखाः यागाः यस्य सः इन्द्रः, स आदिः येषां ते । क्रतुभुजः आहुतिभुजः देवाः । युधि युद्धे । 'अस्त्रियां संयत्समित्याजिसमिद्युधः' इत्यमरः । विरोधिभिः अरिभिः। 'असुहृत्प्रत्यवस्थातृप्रतिपक्षविरोधिनः' इत्यमरः । निर्जितां विजितां, अपहृतामिति यावत् । श्रियं राज्यलक्ष्मीं, [^१]पुनरप्याप्तुं सम्पादयितुमिच्छन्तः अभीप्सवः सन्तः, विचित्रैरनेकविधैर्मणिभिः पद्मरागादिभिः, सुन्दरं दर्शनीयं विपुलाः विशालाः, कन्दराः दर्यः यस्मिन् तम् । 'दरी तु कन्दरो वाऽस्त्री' इत्यमरः । मन्दरमद्रिं, समेत्य प्राप्य, सहस्रं सहस्रसङ्ख्याकाः, समाश्शरदः । 'हायनोऽस्त्री शरत्समाः' इत्यमरः । तपसा ऐकाग्र्येण 'मनसश्चेन्द्रियाणामप्यैकाग्र्यं परमं तपः' इति स्मृतेः । निमिषेण तुल्यं निमिषवत् । 'तेन तुल्यं क्रिया चेद्वतिः' (पा. सू. ५.१.११५) इति वतिप्रत्ययः । अनयन् गमयासुरित्यर्थः । विनष्टां श्रियं प्राप्तं विवेकिन:नः के वा न यतन्त इति भावः । इदानीमाहुतिभुजां वृत्तमुपवर्ण्य यज्ञभागरहितानां देवविशेषाणां वृत्तान्तं वर्णयति ॥ तत्र चेति ॥ तत्र वसतां, तपः दानयज्ञादि धनं येषां तेषां च, अध्वरेषु यागेषु, यानि हवींषि, तेषां भागं,
 
[^१] 'आप्ज्ञप्यृधामीत्' (पा. सू. ७.४.५५) इत्यनेन सनि ईकारे लटः शतरि बहुवचनम् प्रथमायाः । 'अत्र लोपोऽभ्यासस्य' (पा. सू. ७.४.५८) इत्यभ्यासलोपश्च । 'ईर्त्सति, ज्ञीप्सति' -- इत्यादिवत् ।