This page has been fully proofread once and needs a second look.

॥ अथ द्वितीयाश्वासः ॥

 
ततः शतमखादयो युधि विरोधिभिर्निर्जितां

श्रियं पुनरभीप्सवः ऋतुभुजो भुजोपार्जिताम् ।

विचित्रमणिसुन्दरं विपुलकन्दरं मन्दरं
 

समेत्य तपसानयन्निमिषवत्सहस्रं समाः ॥ १ ॥
 

 
तत्र च वसतां तपोधनानामध्वरहविर्भागमपहरत्सु दूतमुखेन
दानवेषु, अकाले वा यष्टुमयज्ञेन वा रहसि प्रदातुमभ्यर्थ नयाप्य नयाप्य-
 

 
[commentary]
 
यदीयचरणाम्भोजभजनाद्वासवादयः ।

तेरुर्दुःखार्णवं देवास्तं वन्दे परमेश्वरम् ॥
 

 

 
ननु कान्दिशीका देवाः किं कृतवन्त इति चेत्तदाह तत इति ॥
शतं मखाः यागाः यस्यः सः इन्द्रः, स आदिः येषां ते । ऋतुभुज:जः आहुतिभुजः
देवाः । युधि युद्धे । 'अस्त्रियां संयत्समित्याजिसमिद्यध:युधः' इत्यमरः । विरोधिभिः
अरिभिः। 'असुहृत्प्रत्यवस्थातृप्रतिपक्षविरोधिनः' इत्यमरः । निर्जितां विजितां, अप-
हृतामिति यावत् । श्रियं राज्यलक्ष्मी, 'मीं, [^१]पुनरप्याप्तुं सम्पादयितुमिच्छन्तः अभीप्सवः
सन्त:
सन्तः, विचित्रैरनेकविधैर्मणिभिः पद्मरागादिभिः, सुन्दरं दर्शनीयं विपुला :लाः विशालाः,
कन्दरा: दर्य:राः दर्यः यस्मिन् तम् । 'दरी तु कन्दरो वाऽस्त्री' इत्यमरः । मन्दरमद्रिं,
समेत्य प्राप्य, सहस्रं सहस्रसङ्घ चाख्याकाः, समाश्शरदः । 'हायनोऽस्त्री शरत्समा: '
माः' इत्यमरः । तपसा ऐकाम्ग्र्येण 'मनसश्चेन्द्रियाणामप्यैकाग्र्यं परमं तपः' इति
स्मृतेः । निमिषेण तुल्यं निमिषवत् । 'तेन तुल्यं क्रिया चेद्वतिः' (पा.
सू. 5-1-115५.१.११५) इति वतिप्रत्ययः । अनयन् गमयासुरित्यर्थः । विनष्टां श्रियं प्राप्तं
विवेकिन: के वा न यतन्त इति भावः । इदानीमाहुतिभुजां वृत्तमुपवर्ण्य यज्ञ-
भागरहितानां देवविशेषाणां वृत्तान्तं वर्णयति ॥ तत्र चेति ॥ तत्र वसतां,
तपः दानयज्ञादि धनं येषां तेषां च, अध्वरेषु यागेषु, यानि हवींषि, तेषां भागं,
 
-
 
"
 
1.

 
[^१]
'आपूप्ज्ञप्यृधामीत्' (पा. सू. 7-4-55७.४.५५) इत्यनेन सनि ईकारे लटः शतरि
बहुवचनम् प्रथमायाः । 'अत्र लोपोऽभ्यासस्य' (पा. सू. 7-4-58७.४.५८) इत्यभ्यासलोपश्च ।
'ईसति, शीप्सति' –र्त्सति, ज्ञीप्सति' -- इत्यादिवत् ।