2023-06-05 16:39:54 by ambuda-bot
This page has not been fully proofread.
॥ अथ द्वितीयाश्वासः ॥
ततः शतमखादयो युधि विरोधिभिर्निर्जितां
श्रियं पुनरभीप्सवः ऋतुभुजो भुजोपार्जिताम् ।
विचित्रमणिसुन्दरं विपुलकन्दरं मन्दरं
समेत्य तपसानयन्निमिषवत्सहस्रं समाः॥ १ ॥
तत्र च वसतां तपोधनानामध्वरहविर्भागमपहरत्सु दूतमुखेन
दानवेषु, अकाले वा यष्टुमयज्ञेन वा रहसि प्रदातुमभ्यर्थ नयाप्य -
यदीयचरणाम्भोजभजनाद्वासवादयः ।
तेरुर्दुःखार्णवं देवास्तं वन्दे परमेश्वरम् ॥
।
ननु कान्दिशीका देवाः किं कृतवन्त इति चेत्तदाह तत इति ॥
शतं मखाः यागाः यस्यः सः इन्द्रः, स आदिः येषां ते । ऋतुभुज: आहुतिभुजः
देवाः । युधि युद्धे । 'अस्त्रियां संयत्समित्याजिसमिद्यध:' इत्यमरः । विरोधिभिः
अरिभिः। 'असुहृत्प्रत्यवस्थातृप्रतिपक्षविरोधिनः' इत्यमरः । निर्जितां विजितां, अप-
हृतामिति यावत् । श्रियं राज्यलक्ष्मी, 'पुनरप्याप्तुं सम्पादयितुमिच्छन्तः अभीप्सवः
सन्त:, विचित्रैरनेकविधैर्मणिभिः पद्मरागादिभिः, सुन्दरं दर्शनीयं विपुला : विशालाः,
कन्दरा: दर्य: यस्मिन् तम् । 'दरी तु कन्दरो वाऽस्त्री' इत्यमरः । मन्दरमद्रिं,
समेत्य प्राप्य, सहस्रं सहस्रसङ्घ चाकाः, समाइशरदः । 'हायनोऽस्त्री शरत्समा: '
इत्यमरः । तपसा ऐकाम्येण 'मनसश्चेन्द्रियाणामप्यैकाग्र्यं परमं तपः' इति
स्मृतेः । निमिषेण तुल्यं निमिषवत् । 'तेन तुल्यं क्रिया चेद्वतिः' (पा.
सू. 5-1-115) इति वतिप्रत्ययः । अनयन् गमयासुरित्यर्थः । विनष्टां श्रियं प्राप्तं
विवेकिन: के वा न यतन्त इति भावः । इदानीमाहुतिभुजां वृत्तमुपवर्ण्य यज्ञ-
भागरहितानां देवविशेषाणां वृत्तान्तं वर्णयति ॥ तत्र चेति ॥ तत्र वसतां,
तपः दानयज्ञादि धनं येषां तेषां च, अध्वरेषु यागेषु, यानि हवींषि, तेषां भागं,
-
"
1. 'आपूज्ञप्यृधामीत्' (पा. सू. 7-4-55) इत्यनेन सनि ईकारे लटः शतरि
बहुवचनम् प्रथमायाः । 'अत्र लोपोऽभ्यासस्य' (पा. सू. 7-4-58) इत्यभ्यासलोपश्च ।
'ईसति, शीप्सति' –इत्यादिवत् ।