This page has been fully proofread twice.

कतिचिदतिवाहयामास वर्षगणान् ॥
 
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभ श्रीकण्ठमतप्रतिष्ठापनाचार्य चतुरधिक-
शतप्रबन्धनिर्वाहक श्रीमन्महाव्रतयाजि श्रीमदप्पयदीक्षितसोदर्य
श्रीमदाच्चानून् दीक्षितपौत्रेण नारायणदीक्षितात्मजेन
श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन
विरचिते श्रीनीलकण्ठविजये चम्पुकाव्ये
प्रथम आश्वासः ॥
 
[commentary]
 
'शाश्वतस्तु ध्रुवो नित्यः' इत्यमरः । स्थिरः अभवत् । देवराज्यं देवसाम्राज्यं दैत्ये दितिपुत्रे बलौ, शासति सति पालयति सति । त्रिलोका एव त्रैलोक्यं, त्रिभुवनमित्यर्थः । इत्थमुक्तप्रकारमभवत् तस्थौ । परि(री)क्षिदादिमहाराजेषु पालयत्स्वपि यः कलिः प्रवर्तितुमुत्सहते स कलिदैत्ये शासति सति प्रवर्तत इति किमु वक्तव्यमिति भावः । दैत्यवृत्तान्तमुपवर्ण्य इदानीं देववृत्तान्तं वर्णयितुमारभते ॥
अपेति ॥ तदा तत्काले अपक्रान्तः प्रस्थितः शचीपतिरिन्द्रस्सर्वैस्सुपर्वभिः देवैः सह निखिलभुवनेषु सुन्दरं दर्शनीयं, मन्दरमद्रिं, बृहस्पतेर्गुरोराज्ञया, अभिगम्य प्राप्य, क्वचिदन्तर्हित एव तिरोहित एव, वर्षाणां शरदां गणान् सङ्घानतिवाहयामास गमयामासेत्यर्थः । महदप्रियकारी को वा निर्विशङ्कः परेषां दृग्भाजनं भवितुमुत्सहत इति भावः ॥
 
इति श्रीमद्भारद्वाजवेल्लालमहादेवसूरिविरचिते नीलकण्ठविजयव्याख्याने
विबुधानन्दाख्याने प्रथमाश्वासविवृतिः ॥
 
॥ प्रथमाश्वासः समाप्तः ॥